________________
१२८
कातन्त्रव्याकरणम्
[दु० टी०]
गुप्तिज्० । ननु चानिर्देशे प्रकृत्यर्थ एव सन् प्राप्नोति । 'गुप् गोपनकुत्सनयोः' (१।४६८) 'गुप् व्याकुलत्वे' (३।७१) देवादिकः । 'गुपू रक्षणे' (१।१३२) असार्वधातुके विभाषितायप्रत्ययः । अथ साहचर्याद् भौवादिकस्यैव निरनुबन्धस्य ग्रहणं तर्हि गोपनेऽपि प्राप्नोति । 'तिज निशाने क्षमायां च' (१।३४८) । 'कित निवासे रोगापनयने च' (१।२९१) । न च वक्तव्यम् – 'जुगुप्सते, तितिक्षते, चिकित्सति' इति यतो गणे पठेदिति, अतोऽर्थविशेष ऊहितव्य इति । कथं सन्विधानं विना 'जुगुप्सुः' इत्यादौ अप्रत्ययोऽनभ्यासत्वाच्च न कथं 'जुगुप्सिषते' इत्यादौ द्विर्वचनम् । अतः 'गुपो निन्दायाम्, तिजः क्षान्तौ, कितः संशयप्रतीकारयोः' इति वक्तव्यम् । श्रुतत्वादेते प्रकृतेर्विशेषणम् – 'जुगुप्सते माम्' । निन्दतीत्यर्थः । 'तितिक्षते तपस्तापसः' । सहते इत्यर्थः । एवं 'न तितिक्षासममस्ति साधनम्' । 'विचिकित्सति मे मनः'। संशेते इत्यर्थः । यद्यपि विपूर्वात् संशयो गम्यते तथापि नासौ वेरर्थः, 'विशेषद्योतका हि उपसर्गाः' इति । 'चिकित्सति व्याधिम्' । प्रतिकुरुते अपनयतीत्यर्थः । 'रिपुं चिकित्सति'। निगृह्णातीत्यर्थः । चिकित्स्यानि क्षेत्रे तृणानि, नाशयितव्यानीत्यर्थः । निग्रहविनाशावपि प्रतीकारस्य भेदाविति ।
___ अन्यत्र गोपनं गोपायति, तेजनं तेजयति, सङ्केतनं संकेतयति । एषामर्थान्तरेऽपि त्यादयो नाभिधीयन्ते । अतः प्रत्युदाहृतमत्यादिभिरेव । तथा वक्ष्यमाणेऽपि निन्दादयोऽर्था न वक्तव्याः । कोऽपि हि धातुः केनापि प्रत्ययेन संबद्धः, कस्मिंश्चिदर्थविशेषे वर्तते स्वभावात् । यथा 'घृणु दीप्तौ' (७।६) घृतमित्यादावित्याह -- गुपो वधेश्चेत्यादि । अन्यत्र वधकः, बधिरत्र निन्दाप्रस्तावादुच्यते । अथ किमर्थं सनोऽकार: "असन्ध्यक्षरयोरस्य तौ तल्लोपश्च, अस्य च लोपः" (३।६।४०, ४९) इति विशेषवचनादस्यापहारोऽस्ति इत्याह - अकार इत्यादि । प्रतिपूर्वः ‘इ गतौ' (१।१०२) सन्, तस्य द्विर्वचनम्, नकारोऽपि विशेषणार्थ: "स्तौतीनन्तयोरेव सनि" (३।८।२८), सनन्तस्य द्विर्वचने 'अधुक्षत्' इति सनन्तस्य न भवति ।। ४५२ ।
[वि० ५०]
गुप्० । तिकिद्भ्यां भौवादिकाभ्यां निरनुबन्धाभ्यां साहचर्याद् ‘गुप् गोपनकुत्सनयोः' (१।४६८) इति भौवादिकोऽपि निरनुबन्ध एव गृह्यते, न तु 'गुप् व्याकुलत्वे' (३१७१) इति देवादिकः । 'गुपू रक्षणे' (१।१३२) इति भौवादिकः सानुबन्धश्च यदि पुनरयं गृहीतः स्यात् तदा असार्वधातुके विभाषितायप्रत्ययात् पक्षे सन् स्यात् । यद्येवमर्थस्यानिर्देशात् प्रकृत्यर्थ एव सन् प्रत्ययो भवन् गोपनेऽपि