________________
१२०
कातन्त्रव्याकरणम्
अथैवं सति किं दषणमिति चेत. यः परः शास्त्रविहितः स प्रत्ययसंज्ञो भवतीति सूत्रार्थे सति सन्नादीनां परत्वविधानं प्रति सूत्राभावात् कदाचित् सन्नादयः पूर्वत : कदाचित् परत : स्युः । यदा पुन: परत : स्युस्तदानीं प्रत्ययसंज्ञा स्यात् । अथ प्रत्ययसंज्ञाया: किं प्रयोजनं चेत् "इवर्णावर्णयोर्लोपः" (२।६।४४) इत्यादौ 'चकासकास' इत्यादौ चास्त्येव ? सत्यम्, यदि प्रत्यय इति संज्ञा स्यात् तदा 'कार्टी निमित्तं कार्यम्' (का० परि० ५६) इति न्यायात् परनिपात एव तस्य कृतः स्यात् तर्हि पर इति संज्ञा स्यात् । प्रयोजनं च “समानः सवर्णे" (९।२।१) इत्यत्र "पूर्वपरयोः” (१।१।२०) इत्यत्र च प्रतिपत्तव्यम् । नैवम्, संज्ञायां सत्यां परशब्दस्य स्वरूपपरत्वेन लक्षणाप्रसङ्ग: स्यात् । नहि 'मुख्यार्थसम्भवे लक्षणा' इति चेत् तर्हि कुत्रापि लक्षणया संज्ञा न स्यात् । नैवम, "तत्र चतुर्दश०" (91१।२) इत्यादौ वचनस्यानन्यगत्या संज्ञैवेति । वस्तुतस्तु संज्ञाप्रकरणेऽपठितत्वान्नेदं संज्ञासूत्रमिति । अथ तथापि कथमधिकारो न स्यात् तर्हि किं दूषणं चेद अस्योत्तरोत्तरसूत्रसम्बन्धेन सन्नादयः परा भवन्ति, ते च प्रत्ययसंज्ञकाः स्युरित्यर्थे सति तद्धितानां प्रत्ययत्वं न स्यादिति ? सत्यम् । “इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च" (२।६।४४) इति ज्ञापकान्न दोषः । तस्मान्मुख्यानुरोधाद् विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वाच्च न दोषः, तस्मात् परिभाषैव । रूढिदृष्टान्तमाह - यथेति । प्रत्ययादिति प्रत्ययोत्पत्तेः प्रथममित्यर्थः । प्रशब्दोऽत्र प्रथमार्थ: । प्रकृतिरिति कर्मणि क्तिप्रत्ययः । एतेन प्रकृतिसंज्ञायामपि रूढिरादृतेति भावः । अत एव नापीतरेतराश्रयदोषः । वृक्ष इति । ननु "तस्मात् परा विभक्तयः" (२|११२) इत्यस्य विषयोऽयं कथमत्र दर्शितः ? सत्यम्, तत्र तस्माद्ग्रहणं सुखार्थमेवेत्युक्तम् । परग्रहणमपि लिङ्गात् परं स्यादीनामवश्यम्भावप्रतिपत्त्यर्थमेवेति तत्र व्याख्यातम्, तच्च तदैव सम्भवति । यद्यनेन सूत्रेण स्यादीनामपि परत्वं परिभाष्यते इति न दोष : । वृत्तौ व्रश्चे: सक् इत्यस्य वा विषयो दर्शित इति ।
पनी - संज्ञायामिति । ननु प्राचीनसंज्ञायामेव घप्रत्ययो युक्तः । इदानीन्तनसंज्ञायां कथं घ: प्रवर्तताम् ? नैवम्, शब्दानां प्रवाहनित्यत्वादस्यापि प्राचीनत्वम् तर्हि कथं सर्वनामसंज्ञायां "पूर्वपदस्थेभ्यः संज्ञायाम" (कात० परि० - ण० २) इति णत्वन्न प्रवर्तते चेत् तत्रापिशब्दस्य बाहुल्यात् क्षुभ्नादिपाठाद् वा ज्ञापक़ादिति वा, न च स्वरान्तवादल भवितुमर्हतीति ? नैवम्, करणे युटा बाधितत्वात् । न च 'वासरूपन्यायात्' भविष्यति, क्तयुटतुम्खलर्थेषु तन्निषेधात् । अत एव तदपवादो घ इति । प्रकृतिरित्यादि । प्रकृतिर्व्याख्यातैव । उपपदस्य “सप्तम्युक्तमुपपदम्" (४।२।२) इति वक्ष्यति । विशेष्यनिष्पत्तिहेतुविशेषणमुपाधिः । स चावश्यं प्रयुज्यते