________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
१२१
इति कुलचन्द्रः । योग्यं चैतद् उप समीपे व्युत्पाद्य पदस्य समीपे आधीयते अर्यते इति उपाधिः । एतेन गीतगोविन्दे – 'नाथ हरे ! सीदति राधा' (६।१) इत्यत्र पशुशब्दप्रयोगं विनापि नाथहरिशब्दस्य पश्वर्थः केनचित् क्रियते इति । तन्नातिपेशलमिति । वस्तुतस्तु प्रयोगवाच्यत्वे सति प्रयोगनियामको धर्म उपाधिः । एतेषां प्रत्ययत्वे सति दूषणमाह -- तथा चेति । तत्र प्रकृतीनां प्रत्ययत्वे सति यद् दूषणं तदेवाह - तत्रेत्यादि ।
ननु अनियमे प्राप्ते परिभाषेयं विधीयते । परिभाषास्थितावपि यद्यनियमो भविष्यति, तदा परिभाषया किं कृतम्, उत्तरत्र सूत्रेषुभयदिग्योगलक्षणायाः पञ्चम्या अङ्गीकारादेव नियमस्यैतादृशस्य सिद्धेः ? सत्यम् । उभयदिग्योगलक्षणायाः पञ्चम्या ग्रहणे प्रमाणाभावाद् गौरवाच्च । न्यासकारस्तु दोषप्रदर्शनमिदम्, न तु सुखप्रयोजन दर्शितम्, सूत्रप्रयोजनं चानुकरणीभूतगुपादिभ्यः सन्नादीनां पूर्वत्वनिषेधार्थमित्याचष्टे । वयन्तु सूत्राभावे कदाचित् पूर्वतः कदाचित् पार्श्वत इति वक्ष्यति । अत्र पार्श्वशब्दस्य मध्यवचनत्वेन व्याख्यानं पार्श्वतः उच्चारणस्यासम्भवात् । सूत्रस्थितौ यन्मध्ये न भवति तदेव प्रयोजनमिति ब्रूमः । अथात्रोपपदोपात्त एव कथन्न कृत इति चेत् "तत् प्राङ् नाम चेत्" (४।२।३) इत्यनेनैव तस्याः परिभाषाया अव्याप्यत्वात् । अथ अनाम्नि अस्या परिभाषाया अव्याप्यताऽस्तीति । यथा भोक्तुमिच्छतीत्येव स्यात् न त्विच्छति भोक्तुमिति ? सत्यम्, सन्नादीनां गुपादीनामिति यदुक्तं तत्रैवादिशब्दस्य व्याप्त्या उपपदमपि बोध्यम् । अभिधेय इत्यर्थः । पशुईतिहरिरिति न स्याद् इति । ननु कथमिदमुक्तं यावता दृतिहरिशब्दस्याप्यर्थप्रत्ययायकत्वात् प्रत्ययत्वमस्तीति कृत्वा तस्यापि परनिपाते सति पशुइतिहरिरिति भवितव्यमेव ।
नैवम्, न ह्ययं दृतिहरिशब्दः प्रकृतिः, किन्तु प्रकृतिप्रत्ययसमुदाय इति । तदयुक्तम्, नहि केवलायाः प्रकृतेरेव प्रत्ययत्वनियामकः कोऽप्यस्तीति । किन्त्वर्थप्रत्यायकत्वं प्रत्ययत्वमुच्यते तच्च विद्यत एव । उच्यते - तत्र धात्वधिकारोऽस्तीति । ततश्च "तत् प्राङ् नाम चेत्" (४।२।३) इति वचनेन दृतिनाथशब्दयोः परो हृधातुरिति लब्धमेव, ततश्च पशोरुपाधेरिति प्रत्ययेन सहैव मुख्यः सम्बन्धः । अतस्तदपेक्षयैव पशोः प्रत्ययत्वं तस्मिंश्च सति ईकारापेक्षया पशोः परत्वे समायाते सति कुतः पशुईतिहरिरिति प्रयोगः, तस्माद युक्तमेवोक्तं पञीकृतेति । साध्यविभक्त्यन्तमिति । माध्यो विधेयस्तस्माद् विहिता विभक्तिःसाध्यविभक्तिः । अथ संज्ञापि साध्या तत्रापि परग्रहणान्वये सति परत्वं स्यात् ? नैवम्, विधिप्रकरणे पठित-त्वात् संज्ञया न सम्बध्यते इति । अत: “सप्तम्युक्तमुपपदम्" (४।२।२) इत्यत्रापि