________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
११९
वत्त्वादवयवानामपि तथोच्यते, तथापि न परत्वं तयोर्नियतदेशविषयत्वात् । तस्य चेति तकारस्य स्थाने सकारो विकारः, आगमश्च धुटः पूर्वो नुर्विधीयमानः कथमिह परो भवितुमर्हतीति स्थितम् ।
अयं तु परिहारो मन्दधियां दुःखावह इति सुखपरिहारमाह - रूढिरिति । कथमिवेत्याह – यथेति । न खलु प्रकृतिसंज्ञा प्रति परेणापि सूत्रमुक्तमिति । वृक्ष इत्यादि । व्रश्चे: सक्। कस्यायमश्वः कुत्सितो वा अश्वः अश्वकः, अज्ञाताद्यर्थे कप्रत्यय: । याव एव यावकः, तत्र बहुलत्वाद् यावादिभ्यः स्वार्थे कः । यद्येवं कथमस्य परत्वम्, न ह्यनेनार्थ : प्रतीयते, येन प्रत्ययत्वे सति तदुपपद्यते इति ? सत्यम् । अनिर्दिष्टार्थाः प्रत्यया अपि प्रकृतेः स्वार्थमनुवादकतया प्रतिपादयन्तीति युक्तं तेषामपि प्रत्ययत्वम् । अत एव स्वार्थे विधीयमानत्वात् स्वार्थिका उच्यन्ते । खट्वेति । खटेरौणादिकत्वात् क्वन्प्रत्ययान्तात् “स्त्रियामादा" (२।४।४९) इति आप्रत्यये उदाहरणम् । औपगव इति । उपगोरपत्यमिति “वाऽणपत्ये" (२।६।१) इत्यण्, “उवर्णस्त्वोत्वमापायः" (२।६।४६) इत्योकारः । कार्याववावावित्यादिनावादेशः । एवमन्यत्रापि । अनियम इत्यादि । प्रकृतेर्भवन् प्रत्ययो मातुर्वत्सवत् कदाचिदग्रतः पार्श्वतः पृष्ठतो वा स्यात् । अतः पर एवेति नियमार्थं परिभाषेयमिति | विध्यङ्गशेषभूता वेति वाशब्देन लिङ्गवती च कथ्यते । सा पुनरेकप्रदेशे गृहीतसम्बन्धा सकलं शास्त्रमभिज्वलयतीति, लिङ्गं पुनरस्याः प्रत्ययत्वमेवेति, तेन हि परत्वं लिङ्ग्यते । विध्यङ्गशेषभूता प्रत्येकं विधिषूपतिष्ठते इत्यत्रापि लिङ्गमस्त्येव प्रतियोगोपस्थानमात्रकृतं भेदमङ्गीकृत्य विध्यङ्गशेषभूता इत्युच्यते ।
ननु किमर्थमिदमुच्यते - "गुप्रतिकिद्भ्यः सन्" (३।२।२) इत्यादिष्वर्थान्तरस्याघटनाद् दिग्योगलक्षणैव पञ्चमीति । ततश्च परशब्दस्याध्याहारोऽर्थाद् भविष्यतीति । तदयुक्तम्, पूर्वशब्दस्याध्याहारस्यापि सम्भवात् सोऽपि दिक्शब्द एवेति, तर्हि ‘पञ्चम्या निर्दिष्टे परस्य' (का० परि० २२) इति भविष्यति, यत्रापि षष्ठी तत्रापि पञ्चम्येव निर्दिश्यताम् । तदप्युक्तम्, यत्र हि साक्षाद् विद्यमानस्यैव परस्य किञ्चित् कार्य क्रियते तत्रासौ परिभाषोपतिष्ठते । यथा "युष्मदस्मदोः पदं पदात्" (२।३।१) इति अत्र तु सन्नादीनामसतामेव परत्वं विधीयते इति कर्तव्यमेवेदम् ।। ४५१।
[क० च०]
प्रत्ययः । ननु पाणिनिना प्रत्ययसंज्ञा कृता, अस्मन्मते किं स्याद् इत्याह - प्रतीयते इति वृत्तिः । अनियम इत्यादि वृत्तिः । ननु संज्ञासूत्रमिदं कथन्न स्यात्,