________________
११८
कातन्त्रव्याकरणम्
पूपिक्षया परो भवतीत्याह - प्रकृतेः परः इत्यादि । सा च द्विविधा - लिङ्गं धातुश्चेति । क्रमेणोदाहरति । प्रकृतेरवधित्वेऽपि मातुर्वत्सवत् कदाचित् पृष्ठतोऽग्रतः पार्श्वतो वा स्यादित्याह - अनियम इत्यादि । विध्यङ्गशेषभूता वेति वाशब्देन लिङ्गवती समाख्याता । एकत्र गृहीतसम्बन्धा लिङ्गवती प्रदीपवत् सर्वं शास्त्रमभिज्वलयतीति लाघवोक्तिः। विध्यङ्गशेषभूता योगे उपतिष्ठत इति सुखप्रतिपत्त्यर्थं गौरवोक्तिरिति । बुद्धिभेदोऽयम् - प्रत्ययत्वं लिङ्गम्, परत्वं लिङ्गमिति । प्रत्ययग्रहणं किमर्थम. पर इत्यधिक्रियताम् इति न चोद्यम् अनादिषु दोषात् । किमेतेन पञ्चमीनिर्दिष्टत्वात परस्य कार्यं भविष्यति, यथा “युष्मदस्मदोः पदं पदात्" (२।३।१) इति, नैवम् । सतस्तत्र परस्य कार्यम्, इहासत एव कथं स्वाभाविकं परत्वम् । अथ वाचनिकं तत्र परत्वम्, तथापि न दोषः । एतद्धि परस्य कार्यम्, यदासौ परः स्यात् । यत्रापि षष्ठी तत्रापि पञ्चम्याख्यायते । किन्तु बुद्ध्याध्यासगौरवं स्यात् ।। ४५१ ।
[वि० प०]
प्रत्ययः । प्रतीयत इत्यादि । प्रतिपूर्वादिणः पुंसि संज्ञायां घः । ननु यदि प्रतीयते येनार्थः स प्रत्यय इति तर्हि प्रकृत्युपपदोपाधिविकारागमैरप्यर्थः प्रतीयते इति तेषामपि प्रत्ययत्वं स्यात् । तथा च सति परत्वमिति । तत्र यद्यपि गुपादीनां सन्नादीनां च परस्परापेक्षया युगपत् परत्वं न संभवति तथापि पर्यायेण कदाचिद् गुपादयः परे कदाचित् सन्नादयः परे इति । उपाधिद्धिविधः-- अभिधेयोऽनभिधेयश्च । तत्राभिधेयो यथा - "हरतेतिनाथयोः पशौ" (४।३।२६) इति । दृतिहरिः पशुः, नाथहरिः पशुः । पशुइँतिहरिरिति न स्यात् । अनभिधेयो यथा - "समुदोरजः पशुषु" (४।५।५१) इति । समजः पशूनाम्, उदजः पशूनाम् । पशूनामुदज इति न स्यात् । नैतदेवम्, प्रत्यय इति साध्यविभक्त्यन्तं पदम्, अन्येन साध्यविभक्त्यन्तेन पदेनैव सम्बध्यते सादृश्यात् । प्रकृत्युपपदोपाधयस्तु सिद्धत्वात् पञ्चम्यादिकतया सिद्धविभक्त्यैव निर्दिश्यन्ते इति न तैः सार्धं संबन्धो भवितुमहतीति । अप्रधानत्वाच्च प्रकृत्यादीनामयुक्तः संबन्ध इति । लोके हि प्रधाने कार्यसम्प्रत्ययो दृश्यते । यथा बहुषु गच्छत्सु कोऽयं यातीति कश्चित् केनचित् पृष्टः सः आचष्टे राजेति । तत्र य: पृच्छति यश्चाचष्टे तयोरुभयोरपि प्रधाने राजन्येव कार्यसम्प्रत्ययो नाप्रधानेऽमात्यादौ । तदवद इहापि प्रधाने सन्नादौ कार्यसम्प्रत्ययः । प्राधान्यं पुनस्तस्य साध्यत्वादेव । प्रकृत्यादीनां तु सिद्धानां तदर्थव्यापारादप्राधान्यमिति । विकारागमयोस्तु यद्यपि साध्यविभक्तिनिर्दिष्टत्वं प्रधानत्वं च, तथापि न प्रत्ययत्वम् । न हि ताभ्यामर्थ : प्रतीयते तस्य समुदायवाच्यत्वात् । अथ समुदायस्यार्थ