________________
॥श्रीः॥ अथ तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
४५१. प्रत्ययः परः [३।२।१] [सूत्रार्थ] प्रथमतया विधीयमान प्रकृति से पर में प्रत्यय होता है ।।४५१ । [दु० वृ०]
प्रतीयते येनार्थः स प्रत्ययः इति रूढिः । प्रत्ययात् प्रथमं क्रियते इति प्रकृतिः। प्रकृतेः परः प्रत्ययो वेदितव्यः । वृक्षः, अश्वकः, यावकः, खट्वा, औपगवः, कारकः, जुगुप्सते, गोपायति, कर्ता, कर्तव्यः । अनियमे प्राप्ते परिभाषेयम्, विध्यङ्गशेषभूता वा ।। ४५१।
[दु० टी०]
प्रत्ययः । प्रतीयते इत्यादि । प्रतिपूर्वादिण : पुंसि संज्ञायां घः, प्रत्ययतीति वा अच् प्रतययः सिद्ध: । ननु प्रकृत्युपपदोपाधिविकारागमैरप्यर्थः प्रतीयते, तेषां प्रत्ययत्वात् परत्वं स्यात्, प्रकृत्युपपदयोः पक्षे वचनात् । उपाधिर्द्विविधःअभिधेयतया, अनभिधेयतया च । “हरतेर्दृतिनाथयोः पशौ" (४।३।२६) कर्तर्यर्थे कार्यासम्भवात् तद्वाचिनोऽपि मन्यते - दृतिहरिः पशुः, नाथहरिः पशुः । "समुदोरजः पशुषु" (४।५।५१) इति पशुविषये समजः पशूनाम्, उदजः पशूनामिति । नैवम्, प्रत्यय इति साध्यविभक्त्या निर्दिष्टः साध्येनैव सम्बध्यते न तु साधनेन । विकारागमयोश्च नियतदेशविषयत्वात्, अन्यथा विकारत्वम् आगमत्वं च न स्याद् अवयववर्णानामानर्थक्याद् अनिर्दिष्टार्थानामपि प्रत्ययत्वं सिद्धम् । श्रुतायाः प्रकृतेः स्वार्थस्यापवादकत्वात्, अत एव स्वार्थिका उच्यन्ते । परिहारगौरवमिदं दृष्ट्रा सुखपरिहारमाह - रूढिरित्यादि ।।
प्रक्रियतेऽस्यामिति वा प्रकृतिः। एवमुक्तं भवति - यथा प्रकृतिसंज्ञा लोकोपचारात् तथा प्रत्ययसंज्ञेति । परशब्दो ह्यस्त्यन्यार्थे । यथा परपुत्रः, परभार्येति । अस्ति प्राधान्ये - परेयं ब्राह्मण्यस्मिन् कुटुम्बे इति । अस्ति इष्टवाची - परं धाम गतः इति । अस्ति व्यवस्थायाम् – पूर्वः पर इति । इह व्यवस्थावचन एव घटते ।