________________
भूमिका
२७. वस्तुतस्तु अन्वयादेव नानुवृत्तिः (क० च० ३।२।४०)। २८. वस्तुतस्तु अनिष्टार्थप्रक्लृप्तिभयादेव तत्पुरुषनिरासः(क० च०३।२।४१)। २९. वस्तुतस्तु व्यतिक्रमनिर्देशात् कानानशोरप्यतिदेशः (क० च० ३।२।४१)। ३०. वस्तुतस्तु पूर्वसदृशात् सनन्तात् कार्यं भवतीति सूत्रार्थः(क० च०३।२।४६)। ३१. वस्तुतस्तु प्रत्ययादिति विधिवाक्यम् (क० च० ३।२।४६)। ३२. वस्तुतस्तथाभूतं न भवतीति व्यपदेशिवद्भाव उच्यते (दु० टी०३।३।१)।
३३. वस्तुतस्तु टीकायाम् अत एव जुहूषतीत्यत्र द्वयंग्रहणस्य फलं दृष्ट्वा परपक्षमाह (बि० टी० ३।३।५)।
३४. वस्तुतःप्रधानं प्रतीयते इति, तर्हि जातेः कोऽन्यो भेदः इत्यवग्रहणं युक्तमिति (दु० टी० ३।३।९)।
३५. वस्तुतस्तु अरं बाधित्वा गण एव प्राग् भवति (बि० टी० ३।३।१००)। [अयमर्थः]
१.अयमर्थः- यस्मान्नित्यतायुक्ता सत्ता तस्मान्न क्रिया भवितुमर्हतीति । अथवा सत्ताया नित्यता सत्तानित्यतेति षष्ठीलक्षणस्तत्पुरुषः (वि० प० ३।१।९)।
२. अयमर्थः- अनागतस्य भविष्यतः इष्टार्थस्य लाभनिमित्तं यत् प्रयोक्तुराविष्करणं तदाशीरिति (क० च० ३।१।१६)।
[अस्यायमर्थः]
१. अत्र सामीप्यशब्दः समीपवचनः । अन्यथा वर्तमानस्य समीपम्, वर्तमानसामीप्यमिति युक्तार्थत्वात् समासो न स्यात् । न हि सामीप्यं वर्तमानस्य धर्मः, किन्तर्हि समीपस्येति तस्मादत एव ज्ञापकात् स्वार्थे यण् प्रत्ययः सिद्धः (क० च०३।१।१६)।
[अयमाशयः]
१.अयमाशयः- रात्रिशेषे यो मुहूर्तमपि सुप्तस्तस्यां प्रभातायां रात्रौ भ्रान्त्यभावादद्यतननिश्चय एव नास्ति, यत्र भ्रान्तिस्तत्राद्यतनत्वनिश्चय इति । एवं च सति अज्ञानज्ञानाभ्यामेवोदाहरणसङ्गतौ किं सूत्रेणेति भावः (क० च० ३।१।१६)।
८. विवक्षा - अभिधान - लोकाभिधानबलाच्छब्दप्रयोगस्य साधुत्वमङ्गीक्रियते तद् यथा -
[अभिधानात्
१. अभिधाननियमस्तु सर्वैरेवावश्यमङ्गीकर्तव्य एव, अन्यथा ‘पाचकोऽहं व्रजामि' इत्यत्रापि नामयोगात् कदाचित् प्रथमपुरुषोऽपि स्यात् (क० च० ३।१।४)।
२. यावता अन्योपसर्गसहितस्य ग्रामेः प्रयोग एव नास्ति अभिधानादिति (क० च० ३।१।९)।