________________
१०२
कातन्त्रव्याकरणम् द्विर्वचने भिन्नपदत्वादेकपदनिबन्धनं कार्यं न प्राप्नोति, तथापि लोकोपचाराद् यथा द्विर्वचनं यथाभिधानं तथा एकपदनिबन्धनं कार्यमपि बोध्यम् । अनयोर्मध्ये पौन:पुन्यस्यैव ग्रहणमिति लक्ष्यते न तु भृशार्थस्य तत्र द्विर्वचनस्योसम्भवात् । अत एव तद्ग्रहणे वाशब्दसम्बन्धेनास्वरसः सूचित इति । अत एव पञ्जीकृतापि आभीक्ष्ण्ये द्विर्वचनमित्युक्तम् ।
सर्वेति । कालस्यैकत्वात् सर्वत्वमसम्भवम्, किन्तु क्रियाया नानात्वेन तस्यापि नानात्वमुपचर्यत एव, अतः सर्वपदोपादानात् क्रियाशब्द आक्षिप्तः । अत एवाह – सर्वक्रियाकालेष्विति वृत्तिः । एवायमिति । अयमनुप्रयोगः कर्तव्य एवेत्यर्थः, अन्यथाऽसाधुत्वापत्तेरनिश्चयापत्तेश्च । ननु लुनातेर्व्यञ्जनादित्वादेकस्वरत्वाच्च यशब्दः कथन्न स्यात् ततो लोलयस्वेत्येतदपि स्यात् ? अत्र कश्चिद् द्वौ क्रियासमभिहारे विधीयेते तत्रोक्तार्थत्वाद् यशब्दो न भवतीति प्रतिपद्यते । नैवम्, टीकाविरोधात् । तथाहि धातोर्यशब्द इत्यत्र टीकायां "ननु लुनातेर्व्यञ्जनादित्वादेकस्वरात् परो यशब्दः प्राप्नोति ? नैवं दोषः, विभाषया यशब्दस्य विधानात् । कथं तर्हि स भवान् लोलूयस्व लोलूयस्वेत्येवायं लोलूयते इति क्रियासमभिहारे पञ्चम्या मध्यमैकवचनं भवति ? सत्यम्, क्रियासमभिहारविशेषे स्वार्थे यशब्दोऽन्तरङ्ग : कर्तकर्मणोश्च हिस्वौ बहिरङ्गाविति पश्चात् प्रवर्तेते । तर्हि कथं पदस्य द्विवचनमिति चेद् आभीक्ष्ण्यद्योतनायेति प्रोक्तम्' इति । ____ अन्यस्तु सर्वकालमादाय विशेषसूत्रमिदम्, यशब्दस्तु क्रियासमभिहारमात्रे अतो न यशब्द इत्याचष्टे, तन्न । नहि युगपत् सर्वक्रियाकाल उच्यते किन्तु कदाचित् कश्चित् काल इति । अयमेवानुप्रयोग इति । न तु कारकान्तरेण धात्वन्तरेण वेति एवशब्दार्थः अलुनादिति सकलातीतानुप्रयोगाणामुपलक्षणमिति । एवं लविष्यतीति भविष्यदर्थानुप्रयोगाणामुपलक्षणम् । एवमन्यत्रापि बोध्यम् । परोऽपि "क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः" (अ० ३।४।२) इति सूत्रं कृतवान् । अयमर्थः- क्रियासमभिहारे वर्तमानाद्धातोः सर्वासां विभक्तीनां विषये लोट पञ्चमी विधीयते, तच्च विधानं यथाक्रमं बोध्यम् । तथाहि तिस्थाने तुर्विधीयते, तसुस्थाने ताम्, अन्तिस्थाने अन्तु । एवं सर्वत्र मध्यमोत्तमाविति ततश्च लोटः स्थाने हिस्वौ विधीयते । वा च तध्वमोरिति तध्वमोर्विषये विभाषया हिस्वौ भवतः । एतदुक्तं भवति - सर्वासां विभक्तीनां मध्यमपुरुषबहुवचनं तध्वमोर्विषयः । अत एव तध्वमोरनुप्रयोगो मध्यमपुरुषबहुवचनेनैव सर्वत्र ज्ञायते । ततश्च तध्वमोर्विषये विकल्पेन हिस्वौ भवतः इति पगभियन्धानं सुखार्थमिति ! यदिदं विवक्षामाश्रित्य सूत्रं