________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
१०१
तध्वमोरिति क्रियासमभिहारे विधानाभावात् क्रियाकालप्रतीतिविशेषप्रतिपत्तिकरोऽनुप्रयोगो वा कथं स्यादित्याह – उपलक्षणमिदमिति । विवक्षयेत्यर्थ इति सुखार्थप्रकारोक्तयुक्तिः इत्यर्थ: । पक्षे पूर्ववदिति पूर्वोक्त – 'लुनीहि लुनीहि, अधीष्व अधीष्व' इतिवदित्यर्थः । क्रियासमुच्चये विवक्षायां विभाषेत्यर्थ इति विवक्षा चैतादृशी आदौ अटत्यादिपदं निष्पाद्य पचतिक्रियासमुच्चयविषये सर्वकालाद्यर्थप्रतीतौ लक्षणा, यदा तु पूर्वम् अटत्यादिविवक्षा नास्ति, किन्तु वर्तमानविवक्षैव तदा वर्तमानादय: सिद्धा एवेति, किं क्रियासमुच्चयेऽन्यतरस्याम् इति वचनेन इत्येत-देवाह - तेनेत्यादि । पक्ष इति द्वयोर्विकल्पपक्षे वर्तमानामुदाहरति । भ्राष्ट्रमटेत्यादि । ननु भ्राष्ट्रमटेत्यादीनाम् अटति, अटतः, अटन्ति इत्याद्यनुप्रयोगः क्रियते सर्वक्रियाकाले वर्तमानादेरविहितत्वात् । नैवम्, परसूत्रार्थापरिज्ञानात् । परो हि क्रियासमुच्चयेऽन्यतरस्याम् इत्यत्र पूर्वतो विकल्पार्थानुवृत्तौ यदन्यतरस्यामिति वचनं तद् व्यवस्थितविभाषार्थमिति, तेन क्रियासमुच्चये विभक्तीनाम् परस्मैपदात्मनेपदसम्बन्धप्रथमैकवचनं विधीयते, पक्षे तासां स्थाने पञ्चमी च विधीयते, पञ्चम्याश्च स्थाने हिस्वौ भवतः इति तद्ध्वमोः स्थाने तौ विभाषयेत्याचष्टे । अस्मन्मते तु स्वकीयविषये एव वर्तमानादेराद्यवचनान्तम् अटतीत्यादिपदं निष्पाद्य पश्चात् क्रियासमुच्चयविषये तत्पदलक्षणया द्विवचनाद्यर्थप्रतीतिः । तथा च सति भ्राष्ट्रमटेत्यत्रापि विशेषाभिव्यक्तयेऽनुप्रयोगो युक्तः इति । पक्षे हिप्रत्यय एवेति तकारस्य विकल्पपक्ष इत्यर्थः । पक्षे प्रत्यय एवेति ध्वम् - इत्यस्य विकल्पपक्ष इत्यर्थः । एवमनयोरपि पक्ष इति तध्वमोर्विकल्पपक्ष इत्यर्थः । (छन्दोऽधीष्व इत्यादौ उदाहृतप्रत्ययविकल्पपक्षस्यानुकृतत्वात् । ननु अन्तरभूतयोस्तध्वमोरिति युक्तम्, इधातोरात्मनेपदित्वेन तप्रत्ययस्याभावात)।
नन् ध्वम् - इत्यस्य विकल्पपक्षे सर्ववचनार्थेषु ते - इत्याद्यवचनस्य कथम् अधीते, अधीयाते, अधीयते इत्यनुप्रयोगः, यावता ध्वम् इत्यस्य त - इत्यस्य च ध्वेस्थाने क्रियमाणत्वाद् ध्वम्प्रत्यये नैवानुप्रयोगो भवितुमर्हति ? सत्यम्, स्वप्रत्ययस्य विकल्पपक्षे एवानुप्रयोग : बोद्धव्यः । स तु ध्वमित्यस्य विकल्पपक्षे । यत्वेवमनयोरपि पक्ष इत्युक्तम् । त - प्रत्ययस्य पक्षे यदाद्यवचनं तध्वमोर्विषयेऽपि भवतीति प्रदर्शनार्थमेव तदित्यभिप्रायः । 'पौनःपुन्यं भृशार्थो वेति वृत्तिः । यद्यपि पदशब्दस्य
१. कुत्रचित् पुस्तके पौनःपुन्यमित्यादि पाठमादायैव कविराजारम्भो दृश्यते अभिप्राय - इत्यन्तः
सुविस्तृतः पाठो नास्ति ।