________________
१००
कातन्त्रव्याकरणम्
नियमव्यावृत्तिसिद्धौ सर्वग्रहणाद् युष्मदि मध्यमः इत्यादीनां बाधः । विधिनियमसंभवे विधिरेवेति न्यायाद् वा, तस्मात् सर्वकालेष्विति वचनं युष्मदि मध्यमः इत्यादिपरिभाषाणां बाधनार्थमिति युक्तम् ।।
ननु यथा सर्वकालग्रहणसामर्थ्याद् युष्मदि मध्यमः इत्यादीनां वाधा, तथा “शेषात् कर्तरि परस्मैपदम्" (३।२।४७) इत्यस्यापि बाधा स्यादिति । न चोद्यं प्रत्ययार्थस्य विशेषाकाङ्क्षायां कर्तृकर्मार्थस्यैवोपस्थितत्वेनान्वयात् प्रथमोपस्थितत्वेन पूर्वासामेव परिभाषाणां सर्वकालग्रहणेन बाधौचित्याच्च , तथा च 'मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते न परान्' (व्या० परि० १०) इति । ननु तथापि द्विवचनबहुवचनयोः कथं स्यात् तयोः केनापि सूत्रेणानभिहितत्वात् ? सत्यम् । “सम्प्रति वर्तमाना" (३।१।११) इत्यादिविधिवाक्येषु द्वयोर्द्विवचनं बहुषु बहुवचनम् इत्यन्वर्थपुरस्कारेण द्विवचनबहुवचनयोर्लब्धत्वात् पूर्वत्वमस्त्येवेत्यदोषः। आभीक्ष्ण्ये द्विर्वचनमिति पत्री । ननु क्रियासमभिहारे हिस्वयोर्विधानात् क्रियासमभिहाररूपोऽर्थस्ताभ्यामेवाभिहित इति कथं तद्व्यञ्जकं द्विर्वचनं स्यात् । यथा 'लोल्यते' इत्यादौ समभिहारार्थविहितेन यशब्देन तदर्थस्योक्तार्थत्वाद् द्विर्वचनं न भवतीति नैवम्, "शेषात् कर्तरि परस्मैपदम्, आत्मनेपदानि भावकर्मणोः" (३।२।४७, ४०) इत्यनेन हि द्वयोः कर्तृकर्मविहितत्वेन क्रियासमभिहारार्थमभिधातुमशक्यत्वात् । तस्मात् समभिहार इति विषयसप्तमीत्वात् समभिहारार्थस्य केनाप्यनभिहितत्वात् तदभिव्यक्तये द्विर्वचनं युज्यत एव यशब्दस्य क्रियासमभिहार एव विहितत्वात् । स्वयमेव तदभिव्यक्तावसमर्थत्वात् तद्वाचकं द्विर्वचनं न स्यात् । यद्येवम् ‘पुनः पुनः पचति, भृशं ज्वलति, लोलूयते' इत्यादौ पुनःशब्दादिना क्रियासमभिहारस्योक्तत्वेन क्रियाया विषयीभूतत्वादनेन सूत्रेण कारकान्तरेणेत्यर्थ इति हेमकराशयः | सुखार्थमेवेदमिति वृत्तिः । सूत्रमिदं सुखार्थमेव । यदि सुखार्थं न स्यात् तदैतत् सूत्रं व्यर्थं स्यात् । यद् यस्मादेवमसौ त्वरावान् अन्यानपि क्रियासु प्रेरयन् क्रियां करोतीति विवक्षया सिध्यतीति भावः ।
यद् वा सुखार्थं यद् यस्मादन्यथा प्रकारेण सिध्यतीति प्रकारमेव विवृणोति एवमित्यादि पनी । “क्रियासमभिहारे मध्यमैकवचनं वा तध्वमोः" (अ० ३।४।२) इति पाणिनिः । तस्येयं प्रक्रिया - वर्तमानादीनां सर्वासां विभक्तीनां स्थाने पञ्चमी विधाय तस्याः सर्वस्याः स्थाने नित्यं हिस्वादेशः । अत्र तध्वमोस्तु स्थाने विभाषया भवत इति ततश्च तध्वमोरिति । अपि तु सर्वविभक्तीनां स्थाने विहितत्वाद् विशेषप्रतिपत्त्यर्थं वर्तमानादीनां मध्यमपुरुषस्य बहुवचनेनानुप्रयोगः कर्तव्य एवास्य