________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
मध्यमोत्तमयोरपि । तध्वमौ च विभाषया भवतः । भाष्ट्रमटत, मठमटत, खदूरमटतं, स्थाल्यपिधानमटत इत्येवायं यूयमटथ । पक्षे हिप्रत्यय एव भ्राष्ट्रमटेत्यादि । तथा छन्दोऽधीध्वम्, व्याकरणमधीध्वम्, निरुक्तमधीध्वम् इत्येवायं यूयमधीध्वे । पक्षे स्वप्रत्यय एव - छन्दोऽधीष्वेत्यादि ।
-
९९
एवमनयोरपि पक्षे छऽधीते, व्याकरणमधीते, निरुक्तमधीते इत्येवायमधीते, अधीयाते, अधीयते । एवं मध्यमोत्तमयोरपि । ननु कथमोदनं भुङ्क्ष्व, सक्तून् पिब, धानाः खाद इत्येवायमभ्यवहरतीति क्रियासमुच्चये सामान्यवचनस्यानुप्रयोगः ? यावतो धातोर्हिस्वादयस्तावान् एवानुप्रयोक्तुं युज्यते, प्रत्यासत्तेर्न्याय्यादिति । तस्मात् “क्रियासमुच्चये सामान्यवचनस्य” इति वक्तव्यम् ? सत्यम्, भोजनादिक्रिया हि व्यक्तौ भिद्यते, तथाहि याऽसौ भोजनक्रिया न सा पानक्रिया खादनक्रिया चेति । जातौ तु सर्वत्राभ्यवहारः संभवतीति न दोष:, जातेरिहाभिधानात् 'भुङ्क्ते, पिबति, खादति' इत्यनुप्रयोगमाला नाभिधीयत इति । ननु भ्राष्ट्रमटेत्यादावुदाहरणेऽटनक्रियाया एकत्वात् कथं क्रियासमुच्चय:, यावता भ्राष्ट्रादीनां कारकाणां बहुत्वात् कारकसमुच्चय एवायमिति ? तदयुक्तम् । कारकभेदात् क्रियापि भिद्यत इति क्रियासमुच्चयो न विरुध्यते सर्वत्राटनक्रियासामान्यमस्तीति अटतीत्यनुप्रयोगो न दुष्यतीति ॥। ४३७। [क० च० ]
क्रिया० | क्रियायाः समभिहार इति वृत्तिः । फलावच्छिन्नक्रियाया अनेकवारकरणं क्रियासमभिहारः । भृशार्थो वेति फले जातेऽपि तदनुकूलक्रियाया अतिशयेन करणं भृशार्थः । ननु सर्वक्रियाकालेष्विति वचनात् सर्वक्रियाकाले पञ्चम्या मध्यमैकवचनं भवद् युष्मदि मध्यमः इत्येकवाक्यतया यत्र युष्मदर्थस्य कर्तृत्वं तस्यैकत्वं च प्रतीयते । तत्रैव भवितुमर्हति कथं नामयुष्मदर्थे कर्तरि द्वित्वबहुत्वे च स्यादिति । नैवम्, क्रियासमभिहारे मध्यमैकवचनमिति कृते पञ्चम्याः कालविशेषस्यानिर्देशात् सामान्येषु भूतभविष्यवर्तमानकालेषु भविष्यति किं सर्वकालेध्विति वचनेन ? तस्मात् सर्वकालेष्विति वचनान्नाम्नि प्रयुज्यमानेऽपीत्यादीनां बाधाऽवसीयत इति । न च विध्यादिष्वपि क्रियासमभिहारस्य घटनाद् विध्यादिनिवृत्त्यर्थमेव सर्वकालग्रहणमिति वाच्यम्, विध्याद्यर्थे पञ्चम्याः पूर्वेणैव सिद्धे नैतत् सूत्रस्य वैफल्यं स्यादिति । अथैतद् वचनं विध्यादिषु क्रियासमभिहारे पञ्चम्या मध्यमैकवचनं नियमार्थं स्याद् अतः सर्वकालग्रहणं नियमव्यावृत्त्यर्थं चेत् तथापि काल इत्यनेन