________________
९८
कातन्त्रव्याकरणम्
साधनकृतबहुत्वानां क्रियाणां समुच्चये मध्यमैकवचनम्, स्वविषये तध्वमौ च स्यातां विभाषयेति । यदा तु समुच्चयेन सह क्रियामात्रं विवक्ष्यते तदा विधिर्नास्तीति, हिस्वौ स्वविषये वा - भ्राष्ट्रमटति, खदूरमटति, स्थाल्यपिधानमटतीत्यादयः ।
ननु च समुच्चये धातोर्यावतो हिस्वादयस्तावत एवानुप्रयोगोऽपि युक्तः । कथं सामान्यार्थेन धातुनानुप्रयोग इति । ओदनं भुक्ष्व, सक्तून् पिब, धानाः खाद इत्येवायमभ्यवहरति ? सत्यम्, व्यक्तौ हि व्यापारभेदः । तथाहि यो भोजनव्यापारो नासौ पानव्यापार : खादनव्यापारश्चेति । जातौ तु सर्वत्राभ्यवहार : संभवतीति न दोषः, जातेरिहाभिधानात् 'भुङ्क्ते पिबति खादति' इत्येवमनुप्रयोगमाला नाभिधीयत इति कारकभेदे क्रियाभेदात् सर्वत्र क्रियासामान्यमस्तीति भावः ।। ४३७।
[वि० प०]
क्रिया० । लुनीहि लुनीहीत्यादि आभीक्ष्ण्ये द्विर्वचनम् । संख्यादिविशेषो न गम्यते इति सर्वक्रियाकालेषु विधीयमानत्वादव्यक्तपदार्थकत्वमेव स्यात्, अतः संख्याकालकारकनामयुष्मदस्मदर्थाभिव्यक्तये अनुप्रयोगो युक्त इति, अन्यथा हि अविदिताभिधेयविशेषतया शब्दो लोके प्रवृत्तेर्निवृत्तेर्वा हेतुर्भवितुमर्हतीति , अभवंश्च कथं प्रयुज्यत इति । यद्येवमनियमेन स्यादतो यथाविध्यनुप्रयोग : पूर्वस्मिन्निति वक्तव्यम् । यथाविध्यनुप्रयोग इति । अस्यार्थः- यस्माद्धातोर्यस्मिन् कारके पञ्चम्या विधिस्तस्यैवानुप्रयोग इत्यर्थः, तदयुक्तमित्याह - प्रत्यासत्तेरित्यादि । भिन्नार्थे धातौ तावन्न भवति, अनभिसंबन्धात् । यथा 'लुनीहि लुनीहि' इत्येवायं छिनत्तीति । तथा कारकान्तरेणापि न भवति लुनीहि लुनीहीत्येवायं लूयते इति । अतो यस्माद्धातोयस्मिन् कारके पञ्चमी विहिता स एव धातस्तदेव कारकं प्रत्यासन्नम् इति कुतो धात्वन्तरेण कारकान्तरेण चानुप्रयोगप्रसङ्ग इत्यर्थः । एक इति पाठो वृत्तौ नास्तीति । लक्ष्यते उक्तविपर्ययेण स्वमतस्याप्यप्रतिपादितत्वात् शास्त्रान्तरे चादर्शनादिति ।
___ अथ किमर्थमिदं यावता लोकेष्वेवं विवक्षास्तीत्याह - सुखार्थमित्यादि । उपलक्षणमात्रमिदमुक्तमित्याह - तथेति । तथैव विवक्षयेत्यर्थः । तेन ‘पञ्चम्यास्तध्वमोर्विषये सर्वक्रियाकालेषु मध्यमैकवचनं विभाषया' इति न वक्तव्यम् । पक्षे पूर्ववदुदाहरणम् । तथेति क्रियासमुच्चयेऽपि विवक्षया विभाषयेत्यर्थः । तेन क्रियासमुच्चयेऽन्यतरस्याम् इत्यपि न वक्तव्यम् । अटतीत्यादय इति- अटति, अटतः, अटन्ति । अटसि, अटथ:, अटथ । अटामि, अटावः, अटामः । पक्षे भ्राष्ट्रमटति, मठमटति, खदूरमटति, स्थाल्यपिधानमटतीत्येवायम् । अटति, अटतः, अटन्ति । एवं मध्यमोत्तमयोरपि । तथा छन्दोऽधीष्व, व्याकरणमधीष्व, निरुक्तमधीष्वेत्येवायमधीते, अधीयाते, अधीयते । एवं