________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः माणवकमध्यापयेत्, अध्यापयतु भवान्, व्याकरणमधीयीय छन्दोऽधीयीय, व्याकरणमध्ययै, छन्दोऽध्ययै, लभेय भिक्षाम्, देहि मे भिक्षाम्, त्वं ग्रामं गच्छेः। प्रकृत सूत्र द्वारा सप्तमी-पञ्चमीसंज्ञक विभक्तियाँ ।। ४३६ । ४३७. क्रियासमभिहारे सर्वकालेषु मध्यमैकवचनं पञ्चम्याः [३।१।२१]
[सूत्रार्थ]
क्रियासमभिहार अर्थ में वर्तमान धातु से सभी कालों में पञ्चमीविभक्तिसंज्ञक मध्यमपुरुष – एकवचन का विधान होता है ।।४३७।
[दु० वृ०]
क्रियायाः समभिहार : पौन :पुन्यं भृशार्थो वा । क्रियासमभिहारे वर्तमानाद्धातोः सर्वक्रियाकालेषु मध्यमैकवचनं भवति पञ्चम्याः । लुनीहि लुनीहीत्येवायं लुनाति, लुनीतः, लुनन्ति । लुनासि, लुनीथः, लुनीथ । लुनामि, लुनीवः, लुनीमः । अलुनात्, लविष्यति । अधीष्व अधीष्व इत्येवायम् अधीते अध्यैत, अध्यैष्यत् । सर्वक्रियाकालेष्विति वचनात् संख्यादिविशेषो न गम्यते इत्यनुप्रयोगः । प्रत्यासत्तेस्तेनैव धातुना कारकेणेति सुखार्थमेवेदम् । अन्यथा एवमसौ त्वरावान् यदन्यानपि प्रेरयन् क्रियां करोतीति विवक्षया सिध्यति । तथा लुनीत लुनीत इत्येवायं यूयं लुनीथ | अधीध्वम् अधीध्वम् इत्येवायं यूयम् अधीध्वे । तथा भ्राष्ट्रमट, मठमट, खदूरमट, स्थाल्यपिधानमट इत्येवायम् अटतीत्यादयो विवक्षा ।।४३७।
[दु० टी०]
क्रिया० । सर्वक्रियाकालेष्वित्यादि । सर्वे च ते क्रियाकालाश्चेति । संख्यादिविशेष इति एकत्वद्वित्वबहुत्वनामयुष्मदस्मदर्थकारककालविशेष इति । प्रत्यासत्तेरित्यादि । भिन्नार्थेन तावन्न भवत्यनभिसंबन्धात् । यथा लुनीहि लुनीहीत्येवायं पचतीति । धात्वन्तरेणापि समानार्थेन भवतीति । अधीष्व अधीष्वेत्येवायं पठतीति । न च कारकान्तरेण लुनीहि लुनीहीत्येवायं लूयत इति । क्रियासमभिहारे हिस्वावित्युक्ते सार्वधातुकत्वं न स्यादिति सर्वकालेषु मध्यमैकवचनं पञ्चम्या इत्युच्यते । मध्यमैकवचनमेकार्थवाचीत्याविर्भावनेन सर्वकालेष्वित्यस्य प्रयोजनं दर्शयति । न च हिस्वान्तमिदमभिधानादव्यक्तपदार्थक क्रियामात्रे वर्तते इत्यपि वक्तव्यम्, यस्माद् विवक्षा गरीयसीत्याह – सुखार्थमेवेदमिति । उपलक्षणमात्रमिदमुक्तम् इत्याह - तथेत्यादि । तथेति विवक्षयेत्यर्थः । “पञ्चम्यास्तवमोर्विषये सर्वकालेषु मध्यमैकवचन विभाषया" इति न वक्तव्यम् । तथेति क्रियासमुच्चयेऽपीत्यर्थः । एकापि क्रिया साधनस्यानेकत्वात्