________________
१०३
तृतीये आख्याताध्याये प्रथमः परस्मैपादः सुखार्थमिति, तत् पुनर्वा च तध्वमो : क्रियासमुच्चयेऽन्यतरस्यामित्यनयोः सूत्रयोविषयमपि विवक्षया साधयितुं (भ्रमिकामात्रमिदमिति सिध्यतीति वृत्तिः) पञ्यामनभिसम्बन्ध इति । न विद्यतेऽभिसम्बन्धो यस्य धात्वन्तरानुप्रयोगस्य स तथा न भवितुमर्हति इति सोपस्कारः । कारकान्तरेणेति कारकान्तरविहितेन प्रत्ययेनेत्यर्थः । एक इति कारकेणेत्यस्यानन्तरमित्यर्थः । उक्तविपर्ययेणेति प्रत्यासत्तिन्यायं विना इत्यर्थः । क्रियासमुच्चयेन्यतरस्यामिति । अयमर्थः- समुच्चीयमानक्रियावचनाद्धातोः सर्वविभक्तीनां स्थाने विभाषया पञ्चमी विधीयते, तद्विभक्तीनां स्थाने हिस्वौ क्रियेते पञ्चम्यन्तर्गततध्वमोर्विषयाणां स्थाने तु विभाषयेति पराभिसन्धानेन प्रयोगौ दर्शयितव्यौ । कथं पञीकृता पञ्चमीविनिर्मुक्तपक्षे भ्राष्ट्रमटतीत्यादयोऽत्र प्रयोगा दर्शिता इति । नहि पक्षे विधीयमानास्त्यादयः सर्वक्रियाकालेषु भवन्ति, अपि तु स्वस्मिन्नेव काल' इति । कथं पक्षे तेषामनुप्रयोगं दर्शयति । यथा 'अटति, अटतः, अटन्ति' इत्यादि । एवम् अग्रिमग्रन्थोऽप्यसङ्गतः । तथा च पक्षे छन्दोऽधीते, व्याकरणमधीते, निरुक्तमधीते इत्येवायम्, अधीत इत्याधुक्तमिति चेत्, न परमताज्ञानात् ।
तथाहि “वा च तध्वमोः" (अ० ३।४।२) इत्यतो विभाषानुवृत्तौ क्रियासमुच्चयेऽन्यतरस्यामित्यत्र यदन्यतरस्यामिति वचनम्, तद् व्यवस्थितविभाषार्थम् । तेन क्रियासमुच्चये सर्वासां विभक्तीनाम् आद्यवचनं द्विवचनाद्यर्थे च पञ्चमीविकल्पपक्षे पञ्चमी च भवति पञ्चम्याश्च हिस्वौ भवतः, तध्वमोस्तु विभाषेत्यर्थः इति ग्रन्थो ह्येतत्परतया व्याख्येयः । तथाहि 'भ्राष्ट्रमट' इत्यादिप्रयोगस्य वृत्तिदर्शितानुप्रयोगस्य शेषः प्रथममुदाहृतः । एवमन्येषामपि प्रयोगो बोध्यः । ततश्च पञ्चमीविकल्पपक्षे कृतस्यातः (?) प्रयोगं दर्शयति - पक्ष इत्यादि । क्रियासमुच्चयत्वात् प्रयोगत्रयं दर्शितम्, अन्यस्यापि पूर्वक्रियाकालविधानादनुप्रयोगमाह - अयमित्यादि । एवमन्यासामपि प्रयोगौ ज्ञेयौ । सम्प्रति सर्वविभक्त्यात्मनेपदस्य स्थाने कृतपञ्चम्यात्मनेपदस्य स्थानेऽन्यक्रियासमुच्चये उदाहरणमाह -छन्द इत्यादि । अस्यानुप्रयोगमाह - अधीते इत्यादि । एवमन्यासामपि बोध्यम् । अस्मिन् पक्षे पञ्चमी विहिता तध्वमोः स्थाने विभाषया हिस्वौ । तध्वमोर्मध्ये तकारस्योदाहरणमाह - भ्राष्ट्रमटेत्यादि । अस्यार्थमाह - यूयमित्यादि । कथं थान्तेन तस्यानुप्रयोग इति चेद् यथाक्रमेण त्यादीनां पञ्चम्या आदेशे क्रियमाणे उत्तमपुरुषबहुवचनस्थाने कृतः, तथा च तस्यानुप्रयोगस्तेनैव युक्तः, एवमन्यासामपि मध्यमोत्तमबहुवचनानां तेनैवानुप्रयोगो विधेयः । एतेन स्थितिपक्षो दर्शितः ।
इदानीं तकारस्थाने कृतस्य हेरुदाहरणमाह - पक्ष इत्यादि । अस्यानुप्रयोगोऽटत इत्यादिरेव, अन्यथा तदर्थाप्रकाशनं स्यात् । सम्प्रति ध्वमः स्थाने कृतस्य तस्य