________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः विध्यादिशब्दानां ग्रहणात् । ते च धात्वर्थविशेषणत्वात् सामान्यार्थयोगेन धातोविशिष्टार्थं ग्राहयन्तीति धात्वर्थविशेषणमेव युक्तम्, तद्द्वारेण च प्रत्ययार्थमपि विशेषयन्ति विधिक्रियायाः कर्ता कर्मेति धात्वर्थविशेषणमन्तरेणैषां प्रत्ययार्थविशेषणत्वं संभवतीति पञ्चमी सप्तमी परस्मैपदवद् निरन्वया संज्ञेति, इच्छाप्रकाशने प्रार्थन एव सप्तमी- कामो मे भुञ्जीत भवान् ।
कथं 'कच्चिज्जीवति ते माता' प्रश्नमात्रस्य विवक्षितत्वात् । तथा इच्छार्थधातुप्रयोगे सप्तमीपञ्चम्यौ प्रार्थन एव - इच्छामि भुञ्जीत भवान् इति । 'भुक्तां भवान्' इति हेतुफलयोर्विभाषया सप्तमीप्रयोगतः दक्षिणेन चेद् यायाः शकटं पर्याहरेत्, दक्षिणेन चेद् यास्यति न शकटं पर्याहरिष्यति, दक्षिणेन यानं हेतुः, अपर्याहरणं चात्र फलं यस्मिन्नर्थे सप्तमी तस्मिन्नर्थे क्रियातिपत्तिरपीति अभोक्ष्यत भवान् घृतेन यदि मत्समीपमासिष्यत । प्रयोगतो भूतेऽपि दृश्यते -
अमक्ष्यद् वसुधा तोये च्युतशैलेन्द्रबन्धना।
नारायण इव श्रीमांस्त्वं चेन्नाराधयिष्यथाः॥इति ।। ४३६। [वि० प०]
विध्यादि० । कुर्यादिति । “ये च" (३।४।३८) इति विकरणोकारस्य लोपः । यत्रेति । अङ्गीकृतस्येत्युपस्कारः । भुञ्जीतेति अशने भुजिरिति रुचादित्वादात्मनेपदम् । अध्यापयेदिति | अधिपूर्व इङ्, हेताविन् । “स्मिजिक्रीडामिनि" (३।४।२४) इत्याकारः, “अर्तिही०" (३।६।२२) इत्यादिना पकारागमः । अधीयेयेति । तथैवाधिपूर्व इङ्, “स्वरादाविवर्णोवर्णान्तस्य" (३।४।५५) इति इयादेशश्च । अध्ययै इति । पञ्चम्युत्तम ऐ, गुणः, ए अय् । प्रेष्य इत्यादि । अत्राप्यज्ञातज्ञापनलक्षणो विधिरस्तीति भावः । व्याधुपसर्गसहितैर्धाञादिभिरेव विध्यादीनामर्थानामभिहितत्वात् सप्तमीपञ्चम्यौ न प्राप्नुत इति चोदयन्नाह – कथमित्यादि । कृत्येत्यादिना परिहरति - कृत्यरूपेष्विति । नियोगतः कर्तव्यरूपतयाभिधातुमिष्टेषु विध्यादिषु तयोर्विधानं तस्मादित्यर्थः । न च प्रकृतीनां तथाभिधानसामर्थ्यमस्तीति कथमुक्तार्थता स्यादिति । यदा त्वित्यादि । यदा पुनः प्रकृतेरर्थस्य विध्यादिलक्षणस्य न कर्तव्यता नियोगतः कार्यरूपता न विवक्ष्यते तदा वर्तमानैव । यथा विदधातीति करणमात्रं प्रतीयते न त्वज्ञातज्ञापनम् । निमन्त्रयते इति भोजनकथनमात्रं न नियोगतः कर्तव्यता ।