________________
९४
कातन्त्रव्याकरणम्
आमन्त्रयते इति संभावनामात्रं न कामचारः । तथा अधीच्छति, संपृच्छते प्रार्थयते
इति || ४३६ ।
[ क० च० ]
विध्यादि० । विध्यादिष्विति गणस्यैकत्वेऽपि अवयवाश्रितं बहुवचनं साधु । विध्यादिषु वर्तमानाद्धातोरिति वृत्तिः । विध्यादिविशिष्टेषु वर्तमानाद्धातोरित्यर्थः । अत्राप्तवचनं प्रवर्तकनिवर्तकरूपं विधिरिति कश्चित् । आप्तवचनव्यापारः प्रवर्तकरूप इत्यन्ये । अवश्यकर्तव्यतारूप इत्यपरः । फलमपूर्वमेवेति इतरः । स्वर्गादिफलेषु योऽनुरागः स एव विधिरित्येके । इष्टसाधनता विधिरिति मतान्तरम् । तदुक्तम् - शब्दस्तद्व्यापृतिः कार्यं फलं रागश्च पञ्चमः ।
इष्टाभ्युपायता चेति विधौ षट् प्रतिपत्तयः ॥
इत्येते षट् परस्परविरुद्धा इति व्यापकलक्षणमाह - विधिरज्ञातज्ञापनमिति । अज्ञातस्य व्यापारस्य कर्तव्यत्वेन ज्ञापनं विधिरित्यर्थः । अत्र 'कर्तव्यताबोधकत्वे सति' इति विशेषणं देयम् । तेन नदीकूले पञ्च दाडिमानि सन्तीत्यादौ अज्ञातज्ञापनस्य विद्यमानत्वात् सप्तमीपञ्चम्यौ न स्याताम् । कटं कुर्यादिति । इह फलार्थिनः कटकरणेऽज्ञानं तस्य चाप्तेन कर्तव्यताबोधपूर्वकज्ञापनं विधिः । तथा च कुर्यादित्यस्य मया बोधितकटकरणको भवान् इति वाक्यार्थः । तत्र विध्यादयः विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनानीति । परसूत्रानुसारेणोदाहरति- कटं कुर्या - दिति । तत्र कुर्यादित्यादिना विधिमुक्त्वा निमन्त्रणमाह - यत्रेत्यादि वृत्तिः । यत्रेति भिन्नाधिकरणे सप्तमीयम् तेनायमर्थः । यत्राज्ञातभोजनादिज्ञापनविषयेऽङ्गीकृतस्य भोजनादेः प्रत्याख्याने प्रत्यवायो भवति, तद् भोजनादिज्ञापन निमन्त्रणमित्यर्थः । तथा च 'अनिन्दितेन निमन्त्रितो नोपक्रमेद् अन्यथा प्रत्यवायी स्यात्' इति श्रुतिः । इहेति भोक्तव्यान्नेष्टजनकर्तृकश्राद्ध इत्यर्थः ।
इदानीमामन्त्रणमाह – यत्रेति । पूर्ववदिहापि भिन्नाधिकरणे सप्तमी, तथा सति यत्राज्ञातज्ञापनविषयेऽङ्गीकृतस्य भोजनादेः प्रत्याख्याने कामचारः स्वेच्छाचरणं तद् आमन्त्रणम् | एतेनावश्यकर्तव्यताज्ञापनं निमन्त्रणं कामचारकर्तव्यताज्ञापनमामन्त्रणमिति निर्गलितार्थः । इहेति इष्टजनगृह इत्यर्थः । अधीष्टमध्येषणम्, तस्य लक्षणमाह - सत्कार इत्यादि । अत्र प्राञ्चः - सत्कारः पूजा, व्यापारोऽध्येषणम्,