________________
कातन्त्रव्याकरणम्
[दु० वृ०]
विध्यादिषु वर्तमानाद् धातोः सप्तमी भवति पञ्चमी च । विपिरज्ञातज्ञापनमेव । कटं कुर्यात्, कटं करोतु भवान् । यत्र प्रत्याख्याने प्रत्यवायस्तनिमन्त्रणम् । इह भुञ्जीत, इह भुङ्क्तां भवान् । यत्र प्रत्याख्याने कामचारस्तदामन्त्रणम् । इहासीत, इहास्तां भवान् । सत्कारपूर्वको व्यापारोऽप्ययनम्। माणवकम् अध्यापयेत्, अध्यापयतु भवान् । निरूपणा सम्प्रश्नः। किन्नु खलु भो व्याकरणमधीयीय उत छन्दोऽधीयीय । किन्नु खलु भो व्याकरणमध्ययै उत छन्दोऽध्ययै । याच्या प्रार्थना। लभेय भिक्षाम, देहि मे भिक्षाम् । प्रेष्यप्राप्तकालयोरपि सप्तमी पञ्चमी च स्यादेवेति मतम् । प्रेषितस्त्वं ग्रामं गच्छेः । (प्रेषितस्त्वं ग्रामं गच्छ) । प्राप्तस्ते काल: कटकरणे कटं कुर्यात्, कटं करोतु भवान् । कथं विदध्यात्, निमन्त्रयेत, आमन्त्रयेत, अधीच्छेत्, संपृच्छेत, प्रार्थयेत ? कृत्यरूपेषु विध्यादिषु तयोर्विधानात्, तदा तु प्रकृत्यर्थस्य न कर्तव्यता, तदा विदधातीत्यादयः सिद्धाः ।।४३६ ।
[दु० टी०]
विध्यादि०। विध्यादयो विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनानि । विध्यादिषु वर्तमानाद्धातोरिति प्रकृत्यर्थविशेषणमाह - विध्यादयोऽर्था न गम्यमाना इति भावः । यदि विध्यादिषु गम्यमानेष्वित्युच्यते तदा छात्रस्त्वामामन्त्रयते छात्रो मां निमन्त्रयते इत्यत्रापि स्यात् । विधिरज्ञातज्ञापनमेवेति । अस्मात् प्रेषणं न भिद्यते प्राप्तकाल : प्राप्तावसरः अत्रापि विधिरस्ति, नहि नियोगत्वं जहातीत्याह - प्रेष्यप्राप्तकालयोरित्यादि । अधीष्टं तु भिद्यते सत्कारपूर्वकव्यापारत्वात् । यथा निमन्त्रणामन्त्रणयोर्भेद इति , न सुष्ठ प्रोक्तमेतद् विधिसम्प्रश्नप्रार्थनानि त्रय एव विध्यादयः । सुखनिबन्धनं तु वृत्तावन्तर्भूतान्वाख्यानमिति । कथमित्यादि । प्रकृत्यैवोक्ता विध्यादयः कथं सप्तमी चेति देश्यम्, परिहारमाह - कृत्यरूपेष्वित्यादि । नहि कृत्यैः कार्यैर्विना प्रकृतेर्विध्याद्यभिधानसामर्थ्यमस्ति । यदा त्वित्यादि प्रकृतेरर्थस्य न कर्तव्यता तदा विदधातीति करणमात्रमेव प्रतीयते न त्वज्ञातज्ञापनम् । निमन्त्रयते इति भोजनकथनमात्रं न नियोगतः कर्तव्यता । आमन्त्रयते इति संभावनामात्रं न कामचारः । एवम् अधीच्छति, संपृच्छते, प्रार्थयते इति तस्मात् प्रत्ययेन धात्वर्थो व्यज्यते, स पुनः स्वेष्वर्थेषु कर्तृकर्मभावेषु प्रवर्तते न पुनर्विध्यादयः प्रत्ययार्थविशेषणं विध्यादिविशिष्टेषु कादिषु धातोः सप्तमी चेति सूत्रे भावप्रत्ययानामेव