________________
८५
तृतीये आख्याताध्याये प्रथमः परस्मैपादः (अ० ३।३।६) इति पाणिनिः । अस्यार्थः- विभक्त्यन्तडतरडतमान्तः किंशब्दः किंवृत्त इति परिभाषितः । किंवृत्ते उपपदे लिप्सायां गम्यमानायां वर्तमानाभविष्यन्तीश्वस्तन्यो भवन्तीत्यर्थः । एतच्च न वक्तव्यमिति भावः । भूतविहितेत्यादि वृत्तिः । अत्रापि परमते सूत्राभावात् कटाक्षार्थमेवेति बोध्यम् । तथा “लिप्स्यमानसिद्धौ च" (अ० ३।३।७) इति परसूत्रम्, अत्रापि लिप्स्यमानादिति पञ्चमीसमासः इष्टः, अत्र किंवृत्तार्थेऽयमारम्भः । अन्यथा किंवृत्ते लिप्सायामित्यनेनैव सिध्यतीति भावः ।
अत्रापि भूतविहितां दर्शयति 'भिक्षामदात्' इति वृत्तिः । एवमित्यादि पत्री । इह "लोडर्थलक्षणे" (अ० ३।३।८) इति परसूत्रम्, लोडिति पञ्चमी तदर्थस्य विध्यादेः प्रेष्यादेश्च लक्षणं निमित्तम्, यो धात्वर्थस्तत्र वर्तमानाद् धातोर्भविष्यति काले भविष्यन्तीश्वस्तन्योः पक्षे वर्तमाना भवतीत्यर्थः । एतन्न वक्तव्यम् इत्याह - विध्यर्थस्येति । अध्ययनविषय इत्यादि । प्रैष्यस्य शिष्यादेरित्यर्थः । “लिङ् चोर्ध्वमौहूर्तिक" (अ० ३।३।९) इति परः। ऊर्ध्वमौहूर्तिक भविष्यति काले सप्तम्यर्थलक्षणे वर्तमानाद्धातोः सप्तमी, चकाराद वर्तमानादयस्तिस्रो विभक्तयः। तन्न वक्तव्यमित्याह - एवमित्यादि । सामीप्ये वर्तमान एव तिस्रो विभक्तयः सिद्धा इत्याह - तस्मिन् भविष्यतीत्यादि । अथ परेण ऊर्ध्वमौहूर्तिक पक्षे सप्तमी विधीयते, तदिह किं स्यादित्याह – प्रार्थन इत्यादि । ननु परेण भविष्यन्मात्रे सप्तमी विधीयते, अस्मन्मते तु प्रार्थन एवेत्यर्थभेदः परेण सह । नैवम्, प्रार्थनविवक्षायां सप्तमी विधाय भविष्यन्मात्रे लक्षणा कर्तव्येति न दोषः । ननु तथाप्यर्थभेदः । परेण भविष्यति काले आशंसनेऽपि “आशंसावचने लिङ्" (अ० ३।३।१३४) इत्यनेन सप्तम्या विहितत्वात् ? नैवमित्याह - आशंसनस्यापि प्रार्थनरूपत्वादिति प्रार्थनत्वेन विवक्षितत्वादित्यर्थः ।।४३३।
[समीक्षा]
कातन्त्रकार ने शिष्टप्रयोग के आधार पर जिन शब्दों का साधुत्व प्रकृत सूत्र द्वारा प्रमाणित किया है, उन शब्दों में भूतादिकालविधानार्थ पाणिनि ने छह सूत्र बनाए हैं – “यावत्पुरानिपातयोर्लट्, विभाषा कदाकोः , किंवृत्ते लिप्सायाम, लिप्स्यमानसिद्धौ च, लोडर्थलक्षणे च, लिङ् चोर्ध्वमौहूर्तिके' (अ० ३।३।४-९) । संक्षेप करने की अनेक विधियों में से एक विधि यह भी है। इसी के परिणामस्वरूप पाणिनीय आदि पूर्ववर्ती विस्तृत व्याकरणों की अपेक्षा आचार्य शर्ववर्मा - वररुचिद्वारा प्रणीत १४०० सूत्रों वाले व्याकरण को ईषत् (कु - का) संक्षिप्त, तन्त्र = व्याकरण = कातन्त्र कहते हैं ।