________________
८४
कातन्त्रव्याकरणम्
पुरानिपातयोर्लट्" (अ० ३।३।४) इत्युक्तम्, तदिह न वक्तव्यमिति भावः । भविष्यन्तीत्यादि । यदि भविष्यन्ती विभक्तिर्विधातुमिष्टेत्यर्थः । ननु कथं भविष्यत्काले वर्तमानाविधानं सम्भवति तस्माद् युक्तिर्वाच्येत्याह - वर्तमानसामीप्यस्येत्यादि । वर्तमानस्याध्ययनादेर्यत् सामीप्यं विद्योतनादिकम्, तस्य भविष्यतोऽपि तद्ग्रहणेन ग्रहणमित्यर्थः । अथ यदि सामीप्यं न विवक्ष्यते तदा किं स्यादित्याह - पुराशब्दादित्यादि वृत्तिः, पक्षान्तरं वा । अत एव वाशब्दोऽत्र पक्षान्तरसूचकोऽध्याहर्तव्य इति पजीकृता वक्ष्यते । पुराशब्दाद् यो भविष्यत्कालोऽवगम्यते तत्र या क्रिया वर्तते, तत्र भविष्यत्काले तस्य विद्योतनादेर्वर्तमानता विवक्ष्यते इत्यर्थः । अत्र पुरेत्युपलक्षणं यावदादिशब्दोऽपि बोद्धव्यः ।
ननु केवलं भुङ्क्ते इति पदाद् यो वर्तमानकालविशेषः स एवार्थोऽनेन सूत्रेण ज्ञाप्यते इति प्रयोजनं किं न स्यादित्याह – भुङ्क्त इत्यादेरित्यादि पत्री | अर्थात् पदान्तरसम्बन्धो गम्यते इति । पदान्तरसम्बन्धे सति कालान्तरं गम्यते इति भावः । अन्तरेणेति । सूत्रारम्भं विनेत्यर्थः । ननु परेण भविष्यत्यधिकारे वर्तमानाविधानार्थं "यावतपुरानिपातयोल्ट्" (अ० ३।३।४) इति सूत्रं क्रियते । तदभावादस्मन्मते कथं वर्तमाना सिद्धा, येन पदान्तरसम्बन्धे सति भविष्यत्ता गम्यते इति व्याख्यायते, अतो वर्तमानासिद्धेः प्रकारमाह - अत्रेत्यादि । यद् वक्ष्यतीति वृत्ताविति शेषः । यावच्छब्दस्याप्रयोग एवेति वृत्तिः। यावच्छब्दस्येत्युपलक्षणम्, पुराशब्दस्याप्युक्तार्थत्वाद् अप्रयोग इति भावः । ननु कथं श्वो भवितेत्यत्र श्वःशब्दस्य प्रयोग उक्तार्थत्वात् ? सत्यम् । कदाचिद् उक्तार्थस्यापि प्रयोग इति 'नियतप्रयोगा हि केचिदव्ययाः' इति न दोषः । यत्र सामीप्यं न विवक्ष्यते तत्र किं स्यादित्याह - अथवेति | पक्षान्तरं वेति कृती च व्याख्यातम् । कदेत्यादि । श्वस्तनीभविष्यन्त्योर्विषये वर्तमानाविधायकं "विभाषा कदाकोः " (अ० ३।३।५) इति पाणिनिः । तदभावेऽस्मन्मतेऽपि शिष्टप्रयोगाद् भवतीत्याह - कदाकीत्यादि वृत्तिः। अत्र वृत्तौ कदायोगे वर्तमानाभविष्यन्त्योरुदाहरणद्वयम्, कहियोगे तु श्वस्तन्या एकमुदाहरणम् प्रतिपत्तव्यमिति, अन्येषां तु टीकायां दर्शितत्वात् । भविष्यति परोक्षादयोऽपीति वृत्तिः ।
परमते भविष्यत्काले परोक्षादीनां विधानं प्रति सूत्राभावात् कथं कदाकर्हियोगे भविष्यति काले परोक्षादीनां प्रयोगो दृश्यते, तस्मात् तन्मतेऽपि पदसंस्कारादनन्तरं लक्षणया कालान्तरप्रतीतिरिति वाच्यमवश्यमिति परमतं कटाक्षयन् दर्शयति- कदा बुभुजे इत्यादि वृत्तिः । तथा किमो विभक्तीत्यादिवृत्तिः, अत्र “किंवृत्ते लिप्सायाम्"