________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
८३
राघवस्तदा' इति भूतेऽपि वर्तमाना सिद्धा तत्कालक्रियायास्तस्मिन् काले वर्तमानत्वादित्याह – पुरेत्यादि । वाशब्दोऽत्र पक्षान्तरसूचकोऽध्याहर्तव्यः । तस्येति विद्योतनस्य गमनस्य च स्वपदाद् वर्तमानता गम्यते, पदान्तराद् भविष्यत्तेति । कदेत्यादि । स्वे स्वे विषये विवक्ष्यमाणा एता विभक्तयो भवन्ति पदान्तरात्तु कालविशेषः, एवमन्यत्रापीति । भूतविहिता र दृश्यन्ते इति भविष्यति सामान्ये इत्यनुवर्तते । तथेति किमो विभक्तीत्यादि निवृत्तम् । लिप्स्यमानाल्लब्धुमिष्यमाणाद् भक्तादेः स्वर्गप्राप्तिलक्षणां सिद्धिमाचक्षाणो दातारं दानेन प्रोत्साहयतीत्यर्थः ।
एवमित्यादि । विध्याद्यर्थस्य निमित्ते भविष्यत्यर्थे वर्तमानाद् धातोर्वर्तमानादयस्तिस्रो विभक्तयो भवन्ति । उपाध्यायश्चेद् आगच्छति अथ त्वं छन्दोऽधीष्व । उपाध्यायश्चेद् आगमिष्यति अथ त्वं व्याकरणमधीष्व । उपाध्यायश्चेदागन्ता अथ त्वं निरुक्तमधीष्वेति भविष्यदुपाध्यायागमनमध्ययनविषये प्रैष्यस्य विध्याद्यर्थस्य निमित्तम् । एवम् ऊर्ध्वमौहूर्तिकऽपीति | मुहूर्तादूर्ध्वम् ऊर्ध्वमुहूर्तम्, तत्र भवः कालः ऊर्ध्वमौहूर्तिकः, क्रीतादित्वादिकण, उत्तरपदस्य वृद्धिः । तत्र स्वचिदधिकारात् तस्मिन् भविष्यति वर्तमानादयस्तिस्रो विभक्तय इत्यर्थः । तद् यथा ऊर्ध्वमुहूर्ताद् उपाध्यायश्चेदागच्छति आगमिष्यति आगन्ता वा अथ त्वं छन्दोऽधीष्वेति । ऊर्ध्वमुहूर्तादुपाध्यायश्चेदागच्छेद् अथ त्वं छन्दोऽधीष्वेति प्रार्थने विध्यादिलक्षणा सप्तम्यस्त्येव, आशंसनस्यापि प्रार्थनरूपत्वात् । यद्येवम् ऊर्ध्वमुहूर्तादन्यत्रापि सप्तमी स्यादिति चेत् स्यादेव, प्रार्थनलक्षणायाः सप्तम्या निषेद्धुमशक्यत्वात् । यथा उपाध्यायश्चेद् आगच्छेद् अथ त्वं छन्दोऽधीष्वेति । एवमन्येऽपि गणप्रपञ्चाएं वेदितव्या इति ||४३३।
[क० च०]
प्रयोगतश्च । प्रयोगादवधेरिति वृत्तिः पूर्वसूत्रेण स्वसंज्ञया यस्मिन् यस्मिन् काले या या विभक्तयो विहिताः शिष्टप्रयोगात् तासां विभक्तीनां तस्मादन्योऽपि कालविशेषोऽवगन्तव्य इत्यर्थः । स च कालविशेषः पदसाधनकाले यदि विवक्ष्यते तदा विभक्तेरुत्पत्तिरेव न स्यात् तस्मिन् कालविशेष तस्या विभक्तेरनभिहितत्वात् । तस्मात् स्वकीयकाल एव विभक्तिं विधाय यावदादिपदान्तरसंबन्धेन लक्षणया कालविशेषोऽवगन्तव्य इति । एतदेवाह - अर्थात् पदान्तरसंबन्धे इति वृत्तिः, अत एव वर्तमाने पदसाधनार्थं वर्तमानसामीप्यस्येति वक्ष्यति । न चैवं प्रकारेण प्रयोगस्य सिद्धत्वेन वचनमिदमनर्थकमिति वाच्यम् । अर्थान्तरसम्बन्धोऽपि शिष्टप्रयोगादेव न तु स्वेच्छयेति सूचितार्थत्वात् । यावद् भुङ्क्ते इत्यादि वृत्तिः । भविष्यदधिकारे "यावत्