________________
८२
कातन्त्रव्याकरणम्
क्षमे न च ।
याजयेत् ॥ ७॥
सः ।
यच्च यत्र द्वयोर्गर्ह विगर्हेऽहं श्रद्दधे नैव यच्चायं वृषलं यत्र आश्चर्येऽपि च दृष्टेयमाश्चर्यं यच्च यत्र वृषलो याजयेत् तत्र एता भूते यस्मिन्नर्थे प्रयोगे च सप्तमी विहिता किल । तस्मिन्नर्थे प्रयोगे च क्रियातिपत्तिरुच्यताम् ॥ ९॥
विभाषिताः ॥ ८ ॥
स्मृत्युक्तौ तु भविष्यन्ती भूते वाऽयतने स्थिता । स्मरसि चेति यद् वत्स ! वत्स्यामोऽहं कलिङ्गके ॥ १० ॥ ह्यस्तनी यत्प्रयोगे तु स्मरसि वत्स! बुध्यसे । यदवसाम काश्मीरे मगधे यदभुक्ष्महि ॥ ११ ॥ आकाङ्क्षायामुभे स्यातां जानामि स्मर बालक । अवसाम च काश्मीरे तत्रौदनमभुक्ष्महि ॥ १२ ॥ यत् काश्मीरेषु वत्स्यामः पास्यामस्तत्र यत् पयः । हशश्वद्भ्यां प्रयोगे तु ह्यस्तनी नित्यमादृता ॥ १३ ॥ अवसाम स्मरसि ह तत्र शश्वदहन्म भविष्यन्मात्रे नित्यं स्यात् श्वस्तनी परिदेवने ॥ इयं तु सा कथं गन्ता एवं पादौ करोति या ।। १४ । ४३३ । [वि० प० ]
प्रयोगतश्च | अर्थादित्यादि । भुङ्क्ते इत्यादेः केवलत्याद्यन्तपदाद् यथाऽयं कालविशेषोऽन्तरेणापि सूत्रारम्भं सिद्ध इति, अर्थात् पदान्तरसम्बन्ध इति गम्यते । यावद्भुङ्क्ते इत्यादि । अत्र हि स्नानादिकं वर्तमानं गम्यते । तदनन्तरभाविनो भोजनस्य भविष्यति, ततो गमनस्य चेति " सम्प्रति वर्तमाना” (३|१|११) इत्यनेन वर्तमाना सिद्धा । यद् वक्ष्यति वर्तमानसामीप्यस्य तद्ग्रहणेन ग्रहणमिति । तथाहि स्नानादिकमत्र वर्तमानं गम्यते इत्युक्तम्, तदनन्तरभाविनो भोजनस्य गमनस्य च तत्समीपत्वमिति युक्तम्, यावच्छब्दस्याप्रयोग एवेत्युक्तार्थत्वादित्यर्थः । अधीष्वेत्यादि । इहाप्यध्ययनकटकरणयोर्वर्तमानत्वात् तत्समीपयोर्विद्योतनगमनयोरपि तद्ग्रहणेन ग्रहणाद् वर्तमानत्वम्, अतः पूर्ववद् वर्तमानेति । अथवा पुराशब्दाद् यो भविष्यत्कालोऽवगतस्तत्र क्रिया वर्तत इति वर्तमाना न विरुध्यते । यदा 'भाषते