________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
कदेत्यादि । वृत्तावेवमुदाहरणम् । कदा भुङ्क्ते, कदा भोक्ष्यते, कर्हि भोक्तेति । एवं कदा भोक्ता, कर्हि भुङ्क्ते, कर्हि भोक्ष्यते इति स्वे विषये विवक्ष्यमाणे सति एतास्तिस्रो विभक्तयो भवन्तीत्यर्थः । लब्धुकामः पृच्छति - को भवतां भिक्षां ददातीति ? तदा लिप्साया अन्यत्रापि दृश्यन्ते भविष्यत्सामान्ये - को भवतां पाटलिपुत्रं गच्छति, गमिष्यति, गन्ता वेति । तथा परोक्षादयोऽपि को भवतां पाटलिपुत्रं जगाम, अगच्छत्, अगमत्, गतवान् वा । तथा लिप्स्यमानात् सिद्धावपि विवक्षितायाम् - यो भवतां भिक्षां ददाति दास्यति, दाता वा स स्वर्गलोकं याति यास्यति, याता वा ।
-
,
८१
लब्धुमिष्यमाणादन्नादेर्या सिद्धिः स्वर्गप्राप्तिलक्षणा तस्यां कीर्त्यमानायां पदान्तरसम्बन्धे भविष्यत्काले वर्तमानादयो वर्तन्ते इति । अत्र हि लिप्स्यमानात् स्वर्गसिद्धिमाचक्षाणो दातारं दानेन प्रोत्साहयतीत्यर्थः । तथोपाध्यायश्चेदागच्छति, आगमिष्यति, आगन्ता वा अथ त्वं छन्दोऽधीष्वेति विध्याद्यर्थनिमित्ताद् धातोर्भविष्यत्सामान्ये वर्तते उपाध्यायागमनमध्ययनविषये प्रैष्यस्य निमित्तम् । तथा ऊर्ध्वं मुहूर्ताद् उपाध्यायश्चेदागच्छति, आगमिष्यति, आगन्ता वा अथ त्वं छन्दोऽधीष्वेति । मुहूर्तादूर्ध्वम् ऊर्ध्वमुहूर्तम्, तत्र भवः कालः और्ध्वमौहूर्तिकस्तस्मिन् भविष्यति वर्तमानसमीपे वर्तते । ऊर्ध्वं मुहूर्ताद् उपाध्यायश्चेदागच्छेत्, अथ त्वं छन्दोऽधीष्वेति प्रार्थने सप्तम्यस्त्येव । प्रार्थनमाशंसनमपि ऊर्ध्वमौहूर्तिकादन्यत्रापि भाव्यमेव सप्तम्या – उपाध्यायश्चेदागच्छेद् अथ त्वं छन्दोऽधीष्वेति ।
-
सर्वविभक्त्यपवादा गर्हे कथं च सप्तमी । भविष्यन्ती च किंवृत्ते क्रोधन श्रद्धयोरपि ॥ १ ॥ गमाह कथन्तत्र याजयेद् वृषलम् भवान् । को नाम वृषलं तत्र याजयेद् याजयिष्यति ॥ २ ॥ कुध्यामि श्रद्दधे नैव कतरः कतमश्च सः । को नाम वृषलस्तत्र याजयेद् याजयिष्यति ॥ ३ । किंकिलास्त्यर्थयोर्दृष्टा भविष्यन्त्यर्थयोस्तयोः । लक्षणे किंकिलार्थोऽयं वृषलं याजयिष्यति ॥ ४॥ न श्रद्दधे भवांस्तत्र वृषलं याजयिष्यति । अस्ति स विद्यते नाम वृषलं याजयिष्यति ॥ ५॥ सप्तमी तु तयोरेव यद्यदायदिजातुषु । न क्षमे श्रद्दधे नाहं यदि त्वं याजयेरिति ॥ ६ ॥