________________
कातन्त्रव्याकरणम्
७. उभयतोऽर्धरात्रं वेति । उभयत उभये पार्वेऽर्धरात्रो यस्याह्न इति विग्रहः । तेनाष्टप्रहरोऽद्यतनः कालः (वि० प०)। ८. वरम् अक्षराधिक्यं न तु भिन्नयोगः (क० च०) ।।४३२ ।
४३३. प्रयोगतश्च [३।१।१७] [सूत्रार्थ]
शिष्टव्यवहार के अनुसार भी कालविशेष में वर्तमाना आदि विभक्तियों का प्रयोग होता है ।। ४३३।।
[दु० वृ०]
प्रयुज्यते इति प्रयोगः । प्रयोगादवधेः कालस्य विशेषो ज्ञेयः । अर्थात् पदान्तरसम्बन्धे । यावद्भुङ्क्ते ततो व्रजति, भविष्यत्तावगम्यते । भविष्यन्तीविवक्षायां तु यावच्छब्दस्याप्रयोग एव । अधीष्म माणवक! पुरा विद्योतते विद्युत् । क्षिप्रं कुरु कटम्, पुरा गच्छसि ग्रामम् । वर्तमानसामीप्यस्य तद्ग्रहणेन ग्रहणम् । पुराशब्दाद् भविष्यदवगमे सति तदा तस्य वर्तमानता । कदाकर्हियोगे वर्तमानाभविष्यन्तीश्वस्तन्यः - कदा भुङ्क्ते, कदा भोक्ष्यते, कर्हि भोक्ता । भविष्यति परोक्षादयोऽपि - कदा बुभुजे, कदा भुक्तः, कदा भुक्तवान् । तथा किमो विभक्तिडतरडतमान्तस्य प्रयोगे लिप्सायां गम्यमानायां भविष्यत्सामान्ये - को भवतां भिक्षां ददाति, दास्यति, दाता वा | कतरो भवतां कतमो भवतां भिक्षां ददाति, दास्यति दाता वा । भूतविहिता अपि दृश्यन्ते- को भवतां पाटलिपुत्रमगच्छत्, अगमदिति वा । तथा लिप्स्यमानात् सिद्धावपि - यो भवतां भिक्षां ददाति, दास्यति, दाता वा स स्वर्गलोकं याति, यास्यति, याता वा । यो भवतां भिक्षाम् अदात् स स्वर्गलोकमगमदिति । एवमन्येऽप्यनुसर्तव्याः ||४३३।।
[दु० टी०]
प्रयोगतश्च । अर्थादित्यादि । यावद् भुङ्क्ते ततो व्रजतीति वर्तमानसामीप्यस्य तद्ग्रहणेन ग्रहणात् पदाद् वा वर्तमानता गम्यते । अत्र हि स्नानादिक्रियानन्तरं भोजनम्, ततो गमनमित्यनेन क्रमेण क्रियायामभिनिर्वय॑मानायां भविष्यद्भोजनमपेक्ष्य स्नानादौ वर्तमाने भाविगमनमपेक्ष्य च यावच्छब्दः प्रयुक्तस्ततः प्रभृतिर्वर्तमानस्य (स्था) विवक्षितत्वादिति भावः। अधीष्वेत्यादि । अत्राप्यध्ययनकरणयोवर्तमानत्वात् तत्समीपयोरपि विद्योतनगमनयोर्वर्तमानत्वमित्यर्थः 'पुरेत्यादि ! एतदुक्तं भवति-पुराशब्दार्थो भविष्यत्कालोऽवगतो वा तस्मिन् क्रिया वर्तते इति भावः !