________________
भूमिका १. शर्ववर्माचार्यस्य सुखेन व्याकरणविषयावबोधार्थं प्रतिज्ञावचनम् |
२. 'ति' प्रभृतीनां १८० संख्यकप्रत्ययानां पाठो दशसु विभक्तिषु वृत्तिकारेण दुर्गसिंहेन कृतः, न तु सूत्रकारेण शर्ववर्माचार्येण ।
३. वर्तमाना-सप्तमी-पञ्चमी-ह्यस्तनी-अद्यतनी-परोक्षा-श्वस्तनी-आशी:-भविष्यन्तीक्रियातिपत्ति' इत्येतासामन्वर्थानां दशविभक्तीनां संज्ञात्वेनोपादानम् | विषयेऽस्मिन् पाणिनेलडादयो दश कृत्रिमा लकाराः प्रसिद्धाः सन्ति ।
४. छन्दोवत् सूत्राणि भवन्ति, छन्दसि च दृष्टानुविधिरङ्गीक्रियते प्रमाणरूपेण, तेन कातन्त्रीयसूत्रेषु विभक्तिपदवर्णानां यः आदि-मध्य-अन्तलोपो दृश्यते, स न दोषाय कल्पते । लोपविषयकं वचनमस्ति
आदिलोपोऽन्तलोपश्च मध्यलोपस्तथैव च ।
विभक्तिपदवर्णानां दृश्यते शार्ववर्मिक ॥ ५. आचार्यवररुचिमतानुसारं शेषश्चतुर्विधः परिकीर्त्यते । तद् यथा -
अर्थाद् उपपदत्वे तु तथा चैवानुबन्यतः।
कारकाच्चैव विज्ञेयः शेष उक्तश्चतुर्विधः ।।इति । ६. 'प्र-सम्-उप-उत्' इत्येतेषां चतुर्णामुपसर्गाणां स्वार्थे द्विर्वचनम् अभिमतम् । तद् यथा
प्रमपूज्य महादेवं संसंयम्य मनः सदा।
उपोपहाय संसर्गमुद्गतः स तापसः ।।इति । ७. वस्तुतः-अयमभिप्रायः-अस्यायमाशयः' इत्यादिभिर्वचनैर्वस्तुतत्त्वस्य परीक्षणं कृतं व्याख्याकारैर्निष्कर्षश्च कश्चिदास्थितः । एवं तदीयवचनानि विज्ञेयानि
[वस्तुतः] १. वस्तुतस्तु 'विदितान्येव' इति पाठो युक्तः (क० च० ३।१।१)।
२. वस्तुतस्तु अयुक्तमिदं यावता सूत्रमिदं व्यर्थीकृत्य तबलेनात्मनेपदिनोऽपि धातोः परस्मैपदं सन् विधीयते (क० च० ३।१।१)।
३. वस्तुतस्तु उक्तिबाधा परग्रहणान्नवग्रहणाच्चावगम्यते (क० च० ३।१।१)। ४. वस्तुतस्तु शास्त्रीयसंज्ञायां लौकिकहेतुर्न प्रयोजकः (क० च०३।१1१)।
५. वस्तुतस्तु समुदायापेक्षया नायं दृष्टान्तः,किन्त्वेकदेशोच्चारणेन समुदायस्याप्युपस्थितिरिति अंशमात्रे दृष्टान्तो दर्शित इति न दोषः (क० च० ३।१।२)।
६. वस्तुतस्तु यथासङ्ख्यमन्तरेणापि क्रमशस्त्यादीनां त्रिकाणां प्रथममध्यमोत्तमसंज्ञाप्रवृत्तौ अभिमतसिद्धिर्भवत्येव, यथासंख्यमिति यदुक्तं तत् प्रकारान्तरमेव (क० च० ३।१।३)।