________________
कातन्त्रव्याकरणम् इत्येते षट्संख्याका विकरणाः कृताः, आत्मनेपद-परस्मैपद-उभयपदप्रत्ययानां विधानं निर्दिश्य स्वरितानुबन्धधातुभ्यः कत्रभिप्राये क्रियाफले सति आत्मनेपदम्, परगामिनि क्रियाफले च परस्मैपदमुपपद्यते पाणिनिमतेन, परं शर्ववर्माचार्यस्य नेदं विशिष्टविधानमभिमतम्, किं च स तत्र सामान्यविधानमेव मनुते । अर्थात् स्वरितानुबन्धेभ्यो धातुभ्यः कभिप्रायेऽकत्रभिप्राये च क्रियाफले सति परस्मैपदमात्मनेपदं च प्रवर्तते । विषयेऽस्मिन् कुलचन्द्राद्याचार्याणां कारिकाभिर्दर्शितमभिमतमत्रोपस्थाप्यते
_ “एतेनास्मन्मते प्रायेण व्यभिचारदर्शनात् - कभिप्राये क्रियाफले" (अ० १।३।७२) इति पाणिनिसूत्रं न सम्मतमिति । तथा च कुलचन्द्रः -
विशेषः पाणिनेरिष्टः सामान्यं शर्ववर्मणः।
सामान्यमनुगृहन्ति तत्राचार्यपरम्परा || इति । तन्नेति महान्तः । तथाहि,
वर्णयामास यत्नेन यतो वररुचिः स्वयम् ।
पाणिनेरनुसारेण तात्पर्य शर्ववर्मणः॥ वयं तु
कभिप्राय इत्येतत सूत्रं न विहितं यतः। तस्मात् सामान्यमेवास्य सम्मतं शर्ववर्मणः॥
केचित्
परस्मै पयते यस्मात तत् परस्मैपदं स्मृतम् । आत्मने पयते यस्मात् तदेवात्रात्मनेपदम् ॥ इत्थमन्वर्थसंज्ञाया विधानेनैव लक्ष्यते। मतं हि पाणिनेरेव सम्मतं शर्ववर्मणः॥ नैवमन्वर्थसंज्ञायाः प्रायो वृत्तिर्न दृश्यते ।
अतो न पाणिनेः सूत्रं सम्मतं शर्ववर्मणः॥" तृतीये द्विचनपादे द्विर्वचनाधिकारमादौ प्रदर्श्य तत्राभ्यासाभ्यस्तसंज्ञाद्वयं चोपनिबध्य द्विर्वचनविधिनिषेध-आदिव्यञ्जनावशेष-प्रथमवर्ण-तृतीयवर्ण-ज्-चवर्ग-हस्व-अ-दीर्घ-गुणइ-अभ्यासगुण-अभ्यासदीर्घ-अनुस्वार-उ-सन्वद्भाव-अत्-इस्-इ-इत्-ईत्-दिगि' इत्येते आदेशाः, 'न्-नी-री' इत्येते त्रय आगमाश्च विहिताः । एतेषु त्रिषु पादेषु सूत्राणां 'व्याख्याचतुष्टयवचनानां च यद् वैशिष्ट्यं दृश्यते, तदेवं वक्तुं शक्यतें
१. इदमत्रावधेयं यद् यस्मिन् सूत्रे कविराजसुषेणभूषणकृतः कलापचन्द्रो नोपलभ्यते, तस्मिन् सूत्रे आचार्यबिल्लेश्वरकृता टीका समुपन्यस्तेति ।