________________
७४
कातन्त्रव्याकरणम् एतदेव पनीपङ्क्तेराशय इत्याहुः । अविरता बुद्धाविति बुद्धौ अविरतत्वेनाध्यवसिता इत्यर्थः । श्व :प्रभृतेः कालस्येत्यादि श्व:प्रभृते: क्रीडाकालस्येत्यर्थः । कदा इत्यादीति | "वर्तमानसामीप्ये वर्तमानवद् वा" (अ० ३।३।१३१) इति पाणिनिः । ___अस्यायमर्थः - अत्र सामीप्यशब्दः समीपवचनः । अन्यथा वर्तमानस्य समीपम्, वर्तमानसामीप्यमिति युक्तार्थत्वात् समासो न स्यात्, न हि सामीप्यं वर्तमानस्य धर्मः, किन्तर्हि समीपस्येति तस्मादत एव ज्ञापकात् स्वार्थे यण् प्रत्ययः सिद्धः । यथा चातुर्वर्ण्यम्, चातुराश्रम्यमिति । तेन वर्तमानसामीप्ये भूते भविष्यति च वर्तमानवत् प्रत्ययो भवतीति अस्मन्मते विवक्षयैव तत् सिद्धमित्याह – समीपे भवः सामीप्य इति । एतत्तु पृष्टप्रतिवचन इति कुलचन्द्रः (तन्मते पदान्तरसंबन्धं विना न संभवतीति), तन्नेति महान्तः, परमते विशेषाभावात् । 'नत्वा दुर्गेण रच्यते' इत्यादौ केवलसामीप्ये वर्तमानाविधानाच्च ।
ननु परेण वर्तमानस्य समीपे भूते भविष्यति च काले वर्तमाना विधीयते । अस्मन्मते तु भूतस्य भविष्यतश्च समीपे वर्तमान एव, तस्मिन् वर्तमाना विधीयते इत्युक्ते परेण सहार्थभेदः प्रयोजनाभावश्चेत्, सत्यम् । यो वर्तमानो भूतस्य भविष्यतश्च समीपस्तस्य वर्तमानस्य समीपो भूतो भविष्यंश्च काल इति परस्परसामीप्यदर्शनार्थमिदमुक्तम्, न त्वनेन प्रत्ययविधानस्य प्रकारः कथित इति हेमकरस्याभिप्रायः । वस्तुतस्तु भूतस्य यः शेषक्षणो भविष्यतश्च समीपे भवन्नारोपितवर्तमानो द्विविध इत्युच्यते । ननु तथापि परेण सह महान् भेदः । यावता भूतभविष्यत्काल एव परेण वर्तमाना विधीयते । अस्मन्यते भूतस्य भविष्यतश्च वर्तमानविवक्षया वर्तमाना इति ? सत्यम् । (विवक्षया) वर्तमाने पदं निष्पाद्य पश्चात् लक्षणया भूतभविष्यत्कालवृत्तिरिति न दोषः । संविधानादेरिति सामग्यादेरित्यर्थः । ननु यदि चतुर्विध एव वर्तमान इत्युच्यते तदा कथं देवदत्तो भवतीत्यत्र वर्तमाना चतुर्विधस्यान्यतमस्याभावात्, तथाहि न तावत् प्रवृत्तोपरतः, नज्योगाभावात् । न च वृत्ताविरत: एतद्भवनस्य श्व:प्रभृतौ प्रतीतेरभावात् । न च नित्यप्रवृत्तो भवनस्य सर्वकालीनत्वाभावात्, नापि सामीप्यः समीपभवत्वाभावात् । कुलचन्द्रमते पृष्टप्रतिवचन एव तस्य विषयत्वाच्च ? सत्यम् । एतप्रारम्भापरिसमाप्तेरत्रापि विद्यमानत्वात् । सामान्यमेवात्र वर्तमानत्वमिति, अत एव पत्रीकारेण सर्वत्र प्रारब्धापरिसमाप्तेविद्यमानत्वादित्युक्तम् ।
यद्येवं कथन्तर्हि चतुर्विध इत्युक्तं चेत् ? सत्यम् । चतुर्विधोऽपि वर्तमान इत्यत्रापिशब्दोऽध्याहर्तव्यः । वस्तुतस्तु गिरीणां नित्यप्रवृत्तत्वं नास्त्येव, उत्पत्ति