________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
तु प्रायोवृत्तित्वादिति एकदेशवृत्तित्वादिति मन्यन्ते । सङ्कर इति विभक्तीनां परस्परतो विषयविवेको न स्यादित्यर्थः ।। ४३२ ।
७३
[क० च० ]
तासाम्० । स्वसंज्ञाभिः कालस्य विशेषो ज्ञेय इति वृत्तिः, तासां स्वसंज्ञान्वर्थेरित्यर्थः । वर्तमानस्य सामान्यलक्षणमाह प्रारम्भ इत्यादि । अस्यार्थः- क्रियाद्वारा प्रकृष्ट आरम्भो यस्य कालस्य स प्रारम्भः, न विद्यते परिसमाप्तिर्यस्य सः, तथा साधयितुमारब्धो यावत् समाप्तिं नोपपद्यते तावत् स कालो वर्तमान इत्यर्थः । ननु यदि प्रारम्भस्यापरिसमाप्तेरेव वर्तमानत्वम्, तदा आकाशमस्तीति अत्र कथं वर्तमानत्वं नित्यस्य प्रारम्भत्वाभावात् ? सत्यम् | नित्यायाः सत्ताया अपि प्रारम्भत्वमुपचर्य्य प्रयोग इति न दोषः । यद् वा प्रारभ्यते क्रिया अस्मिन्निति प्रारम्भः कालः । नास्ति क्रियायाः परिसमाप्तिर्यस्मिन् काले सोऽपि तथा स कालो वर्तमान इत्यर्थः । यद्यत्र प्रारम्भग्रहणं नोच्यते तदा करिष्यमाणेऽपि घटे घटं करोतीति प्रयोगः स्यात्, तदानीमपि तत्क्रियाया उत्पत्स्यमानत्वेनापरिसमाप्तेर्विद्यमानत्वात् । यदि चापरिसमाप्तिग्रहणं न क्रियते तदा वैशाखादिस्थूलकाले या पाकादिक्रिया प्रारब्धा, तत्क्रियायास्तन्मासस्याभावेऽपि 'वैशाखे पचति' इति प्रयोगः स्यात् । ततश्च पदद्वयं दातव्यमिति । एतदेव प्रयोगकाले प्रागभावध्वंसरहितत्वं वर्तमानत्वमित्युद्युष्यते । प्रवृत्तोपरतश्चेत्यादि पनी । प्रवृत्तश्चासावुपरतश्चेति प्रवृत्तोपरतः ।
ननु प्रवृत्त उत्पन्नः उपरतश्चातीतः स कथं वर्तमानः ? सत्यम्, या खादनक्रिया प्रवृत्ता सा इदानीमुपरता सती प्रवर्तते । एतदुक्तं भवति - या खादनक्रिया प्रारब्धा सैव नञ्सम्बन्धादखादनावस्थायामपरिसमाप्ता सती वर्तमाना, अतः प्रारब्धापरिसमाप्तत्वं घटत एव एतच्च सन्न विनश्यतीति मतेनोक्तम् । ननु मांसं न खादतीत्यस्य प्रवृत्तोपरतार्थत्व एव किं प्रमाणम् । अत्र जन्मप्रभृति न खादतीत्यर्थः कथं न स्यात् ? सत्यम् । जन्मप्रभृति यो न खादति, तत्रापि खादनक्रियामध्यारोप्यैष निषेध:, अन्यथा खादनक्रियाया अभावादेव निषेधो नोपपद्यत इति । अत उभयत्रैवारोप्य प्रवृत्तोपरतत्वस्य विद्यमानत्वान्न दोष इति । एतदेवाह - इहेत्यादीति हेमकरस्याभिप्रायः । अन्ये तु मांसं न खाद' त्यत्रारोप्य खादनक्रियायां प्रारम्भापरिसमाप्तेर्विद्यमानत्वाद् वर्तमानां निष्पाद्य नञ्सम्बन्धेनैवोपरतो भविष्यतीति कृत्वा प्रवृत्तीपरतो वर्तमान इत्युच्यते, न तु यत्र वर्तमानः स एव प्रवृत्त उपरतश्चेति ।