________________
कातन्त्रव्याकरणम्
पुषादिसूत्रेण अण्, “अस्य वमोर्दीर्घः' (३।८।११)। अपाम इति पिबतेः सिच्, इणस्थेत्यादिना तस्य लुक् । ह्यस्तनस्याविवक्षयैवेति, सतोऽपि चाविवक्षा यथा 'अलोमिका एडका' इति । एतेन भूतसामान्येऽपि अद्यतनविवक्षायामद्यतनी वेदितव्या । इह तर्हि ह्यस्तनकालद्योतकस्य ह्यःशब्दस्य साक्षाद् विद्यमानत्वाद् ह्यस्तनी प्राप्नोतीत्याह - ह्योऽगमामेत्यादि । पदान्तराद् ह्यस्तनः कालः प्रतीयमानो वाक्यार्थो बहिरङ्गो न पदसंस्कारकाले विद्यत इत्यर्थः । मतमिति शर्ववर्मणः सम्मतमित्यर्थः । क्रियातिपत्तावित्यादि । क्रियाया अतिपतनं क्रियातिपत्तिः, कुतश्चिद् वैगुण्यात् क्रियाया अनभिनिष्पत्तिः तद्विषये योऽतीतकालस्तस्मिन्नित्यर्थः । अलप्स्यतेति । लभेरात्मनेपदं स्यत्, “अघोषेष्वशिटां प्रथमः" (३।८।९) इति भकारस्य पकारः । अपक्ष्यदिति पचे: परस्मैपदं स्यत, "चवर्गस्य किरसवणे" (३।६।५५) इति चकारस्य कत्वम् । भविष्यतीत्यादि । भविष्यता विशेषणं भविष्यद्विशेषणं "भविष्यति भविष्यन्त्याशीःश्वस्तन्यः" (३।१।१५) इति विधावुपात्तस्य भविष्यत्कालस्य भविष्यत्वेन व्यभिचारो नास्तीति, यत् पुनः स्वसंज्ञाबलाद् भविष्यविशेषणं तस्मादित्यर्थः । ननु श्वस्तनीपदार्थश्वस्तन एव भवति, अत्र तु वाक्यार्थश्वस्तने कथं स्यात्, येनैवमुच्यते ? सत्यम्, इहापि पदार्थ एव श्वस्तनः केवलं व्यामिश्रप्रतिपत्त्यर्थं श्वःशब्दोच्चारणम् अतस्तदपवादभूता श्वस्तनी प्राप्नोतीति भावः । गमिष्यतीति । "से गमः परस्मै" (३।७।६) इतीट् । आशीर्युक्त इत्यादि । अनागतस्येति भविष्यत इत्यर्थः । भविष्यविधानमिति । "भविष्यति भविष्यन्त्याशीःश्वस्तन्यः" (३।१।१५) इत्यनेनेत्यर्थः । ननु भविष्यद्विधानमन्तरेणाशीर्युक्ते भविष्यति श्वस्तन्येव स्यात् परत्वाद् अतस्तत्राशीरर्थमेव भविष्यद्विधानं कर्तव्यम् । कथं सुखार्थमिति ? सत्यम्, तदाशिष एव परेण पाठं कुर्यादिति मन्यते । श्वो भवः इति पूर्ववत् तनट् । सामान्यभविष्यप्रतिपत्त्यर्थमिति । श्व प्रभृतेः कालस्य पक्षमाससंवत्सरादिलक्षणस्य प्रतिपत्त्यर्थमित्यर्थः । कथं तर्हि श्वो गमिष्यतीत्याह - पदसंस्कारादिति । भविष्यदद्यतनादौ सामान्येन गमिष्यतीति पदं संस्कृत्य (निष्पाद्य) पश्चात् पदान्तरेण श्वःशब्दादिना योगे सिद्धमित्यर्थः । यदि तर्हि श्व:प्रभृतौ भविष्यत्काले श्वस्तनीति, किं स्वसंज्ञाविशेषणेनेति ? सत्यम् । भविष्यत्-श्वस्तने श्वस्तन्येव यथा स्यात्, नान्या विभक्तिरिति स्वसंज्ञाया विशेषणम् । यथा वर्तते इति वर्तमानः कालस्तत्संबन्धाद् विभक्तिरपि वर्तमाना, तथा परोक्षादयोऽपीत्यर्थः । (अन्वर्थ) संज्ञयैव कालविशेषो विज्ञास्यते, किमनेनेत्याह - अन्वर्थेत्यादि । प्रायोवृत्तित्वादिति, न पुनः सर्वत्रान्वर्थतेत्यर्थः । यस्मादुत्पादिता अपि निरन्वया दृश्यन्ते संज्ञाः । यथा मण्डं पिबतीति मण्डपः । अन्ये