________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
७१ परोक्ष इत्यादि । दर्शनयोग्यत्वादिति । शक्यदर्शनत्वादित्यर्थः । अयं तु परोक्षस्याविवक्षायां हेतुरुक्तः । एतदुक्तं भवति - बहवः प्रत्यक्षेण यागमुपलब्धवन्तः, प्रयोक्ता तु कार्यान्तरे व्यासङ्गात् प्रत्यक्षेणैव नोपलब्धवान्, अतस्तस्यासौ यागः परोक्षः, शक्यदर्शनत्वाच्च तस्याविवक्षया ह्यस्तन्यपि प्रवर्तते । अतः परोक्षे लोकविज्ञाते प्रयोक्तुदर्शनविषये ह्यस्तन्यपीति न वक्तव्यम् भवतीति । इयाजेति । "परोक्षायामभ्यासस्योभयेषाम्" (३।४।४) इति यजेरभ्यासे सम्प्रसारणमिकारः । ह्यस्तन इत्यादि । “सायंचिरंप्राढेप्रागव्ययेभ्यस्तनट्" इति तमादिनिपातनात् तनट् । 'अद्य ह्यो वाऽभुक्ष्महि' इति अशने भुजिरिति रुचादित्वादद्यतन्यामात्मनेपदोत्तमपुरुषस्य बहुवचनं महि, “सिजयतन्याम्" (३।२।२४) सिच्, “सिजाशिषोश्चात्मने" (३।५।१०) इत्यगुणत्वम् । अद्यतन इत्याद्यव्ययत्वात् पूर्ववत् तनट् । अतीतमात्र इति परोक्षेऽपरोक्षे चेत्यर्थः । आन्याय्यादिति । न्यायादनपेतं न्याय्यम्, अभिविधावयमाङ्, उत्त्थानं शय्यापरित्यागः, संवेशनं शय्यारोहणम्, तत्रातिक्रान्ताया रात्रेश्चतुर्थे यामे न्याय्यमुत्थानम्, आगामिन्याश्च प्रथमे यामे न्याय्यं संवेशनम् । तेनोत्त्थानसंवेशनोपलक्षितं प्रहरद्वयमभिव्याप्याहर्दिवसः स कालोऽयंतनः।
अथवा उत्तिष्ठन्त्यस्मिन्निति उत्थानम्, अतिक्रान्ताया रात्रेश्चतुर्थः प्रहर एवोच्यते, तथा संविशत्यस्मिन्निति संवेशनम्, आगामिन्या रात्रेः प्रथमः प्रहर इति, एतौ प्रहरावभिव्याप्याहरद्यतनः काल इत्यर्थः । उभयतोऽर्धरात्रं वेति । उभयतः उभये पार्वेऽर्धरात्रो यस्याह्न इति विग्रहः, तेनाष्टप्रहरोऽद्यतनः काल इति वाशब्देन मतान्तरं दर्शितम् । कथमित्यादि । 'वसेरद्यतनी रात्रिशेषे जागरणसन्ततौ' इति वक्तव्यमन्तरेण ह्यस्तन्येव स्यात् । तथाहि रात्रिशेषादतिक्रान्ताया रात्रेश्चतुर्थप्रहरलक्षणाद् यत् पूर्वभागं प्रहरत्रयलक्षणमसौ शयितः स तस्यानद्यतन एव काल इति । परिहारमाह - सकलामित्यादि । चतुर्थप्रहरलक्षणां रात्रि कार्येन जागरितः । एतदुक्तं भवति - रात्रिशेषेऽतिक्रान्ताया रात्रेश्चतुर्थे यामे प्रत्युत्त्थितः सकलमेव रात्रिशेषं जागरितः । क्व भवान् उषितः इति केनचित् पृष्टः सन् प्रतिवचनं प्रयच्छन् रात्रेरप्रभातत्वाद् अद्यतनकालमिव मन्यते । तथा च सति अद्यतनीमेव प्रयुङ्क्ते इति । अन्ये तु सकलां कृत्स्नां चतुःप्रहरलक्षणां रात्रिमिति मन्यन्ते, तत्तु वार्तिकनासङ्गतार्थमित्युपेक्षितम् । वार्त्तिककारो हि रात्रिशेषे जागरणसन्ततावित्याह । यो मुहूर्तमपीत्यादि । रात्रिशेष इति संबन्धः। अमुत्रावात्सम् इति वसेरद्यतन्यामम्, मध्ये सिच्, अस्य च दीर्घः । “सस्य से सार्वधातुके तः" (३।६।९३) इति धातुसकारस्य तकारः, अडागमः । अगमामेति । गमेरद्यतन्यामुत्तमपुरुषस्य बहुवचनम्-म,