________________
७०
कातन्त्रव्याकरणम्
[वि० प० ]
तासाम्० । चतुर्विधो वर्तमानः, प्रारम्भापरिसमाप्तेः सर्वत्र विद्यमानत्वात् । यथोक्तम् -
प्रवृत्तोपरतश्चैव वृत्ताविरत एव च ।
नित्यप्रवृत्तः सामीप्यो वर्तमानश्चतुर्विधः ॥ इति ।
क्रमेण दर्शयन्नाह - मांसं न खादतीत्यादि । इह वर्तमाने पदं निष्पाद्य पश्चान्नञा सम्बन्धः कार्यः । इह 'कुमाराः क्रीडन्ति' इति बुभुक्षया निद्रया वा पीडितानां कुमाराणां क्रीडा वृत्ताप्यविरतेति बुद्धौ श्वःप्रभृतेः कालस्य विद्यमानत्वात् । 'तिष्ठन्ति पर्वताः' इति पर्वतानां नित्यप्रवृत्तत्वात् । सामीप्ये दर्शयन्नाह - कदेत्यादि । समीपे भवः सामीप्यः, स च भूतस्य भविष्यतश्च समीपे भवन् द्विविधः । तत्र भूतसामीप्ये - कदा आगतोऽसि ? ' एष आगच्छामि' इत्यत्रागमनस्यातीतस्यापि वर्तमानत्वविवक्षा तत्कृतस्याध्वखेदादेस्तथैव विद्यमानत्वात् । भविष्यत्सामीप्ये यथाकदा गमिष्यसि ? एष गच्छामि इति । अत्र भविष्यतोऽपि गमनस्य वर्तमानत्वविवक्षा | तदर्थस्य सन्निधानस्य वर्तमानत्वादिति । यदा तु भूतभविष्यद्विवक्षा, तदा यथायथं प्रत्यया भवन्त्येव । यथा कदा आगतोऽसि ? एषोऽहमागच्छमिति ह्यस्तनी, एषोऽहमागमम् इत्यद्यतनी, एषोऽहमागत इति निष्ठा । कदा गमिष्यसि ? एषोऽहं गमिष्यामीति भविष्यन्ती, एषोऽहं गन्तास्मि इति श्वस्तनी, एषोऽहं गम्यासम् इति आशीः, एषोऽहं गामी इति णिनिः । तेन “वर्तमानसामीप्ये वर्तमानवद् वा " ( अ० ३ | ३ | १३१ ) इति न वक्तव्यं भवतीति ।
परोक्षेत्यादि । अक्षाणां परं परोक्षमिति कृते समासे परशब्दस्य पूर्वनिपातोऽभिधानात्, अक्षशब्दस्य चादेरकारस्योत्वम् । ननु यदीन्द्रियाणामविषयः परोक्षः कालस्तर्हि उत्तमो न सिध्यतीति आत्मसाध्यायाः क्रियायाः प्रत्यक्षत्वाद् इत्याहकथमित्यादि । चित्तस्य विक्षेपादिति । सा हि क्रिया स्वयं कृतापि विक्षिप्तचित्तत्वात् कर्त्रा नोपलक्षिता केवलं फलेनानुमीयते इति परोक्षैवेत्यदोषः । नाहमित्यादि । कश्चित् केनचित् पृष्टः किं भवान् कलिङ्गेषु स्थितः ? स आह - नाहं कलिङ्गं जगामेत्यादि । न केवलं कलिङ्गविषयावस्थानमपह्नुते, अपि तु कलिङ्गगमनस्य दोषसंयोगात् प्रत्यक्षमपि कलिङ्गगमनम् अपह्नुते इत्यत्यन्तापह्नवेऽपि परोक्षस्य विवक्षिप्तत्वात् परोक्षा सिद्धैवेति अत्यन्तापह्नवे परोक्षा न वक्तव्या । तथा चोक्तम् -
कृतस्यास्मरणे कर्तुरत्यन्तापह्नवेऽपि च ।
दर्शनादेरभावे च त्रिषु विद्यात् परोक्षताम् ॥ इति ।