________________
इ
तृतीये आख्याताध्याये प्रथमः परस्मैपादः लक्ष्यते इति । तन्मतेन भूतसामान्ये ह्यस्तनीविधानमनर्थकं स्यात् । अद्य ह्यो वा इत्यादि सन्निधानादिति सन्निहितपरित्यागे व्यवहितं प्रति कारणं वाच्यमित्यर्थः । किञ्च 'उभयोः सावकाशत्वे पूर्वपरयोः परो विधिर्बलवान्' (नागेश० ३८) इति । अद्यतन इत्यादि अव्ययलक्षणस्तनट, अद्यतनेऽतीते परोक्षे प्रत्यक्षे चाद्यतन्येवेत्यर्थः । न्यायादनपेतो न्याय्यः न्याय्योत्त्थानो रात्रेरतिक्रान्तायाश्चतुर्थो यामः आगामिन्याः प्रथमो न्याय्यसंवेशन इति । संवेशनमिह शय्यारोहणं प्रतिपत्तव्यम्, अहर्दिवसः काल इत्यर्थः । उभयतोऽर्धरात्रं वेति उभयत उभयपार्वेऽर्धरात्रो यस्याह्नः इति विग्रहो वाशब्दो मतान्तरे | कथमित्यादिना वसेरद्यतनी रात्रिशेषे जागरणसन्ततौ इति न वक्तव्यमिति दर्शयति । ____कश्चित् कञ्चित् पृच्छति - क्व भवानुषित इति ? तस्मै प्रतिवचनं प्रयच्छन् अद्यतनीं प्रयुङ्क्ते । अगमामेत्यादि सर्वत्र भूतसामान्यविवक्षायामद्यतनी भवत्येव । सतोऽपि चाविवक्षा । यथा अलोमिका एडका इति । असतोऽपि च विवक्षा । यथा समुद्रः कुण्डिकेति । ह्योऽगमामेत्यादि । एतदुक्तं भवति पदान्तरेणात्र ह्यस्तनः काल उक्त इति अनभिनिवर्त्य (अनभिनिवृत्तसंस्कारस्य पदस्याभिधानावस्थायामुपजायत इति न पदसंस्कारकाले आदरणीयः । क्रियातिपत्तावित्यादि । क्रियाया अतिपतनं क्रियातिपत्तिः, कुतश्चिद् वैगुण्यादनभिनिवृत्तिः, सा च भूतभविष्यविषया । क्रियातिपत्तावतीते इति भिन्नाधिकरण्ये विशेषणविशेष्यभावः क्रियातिपत्तिसमवायाद् वा क्रियातिपत्तिरतीत इति सामानाधिकरण्यम् । भविष्यतीत्यादि । भविष्यता विशेषणं भविष्यविशेषणं भविष्यत्कालो भविष्यत्त्वं न व्यभिचरति, यद् विशेषणमाह तबलादित्यर्थः । (तद्गुणादित्यर्थः)।
ननु पदार्थे श्वस्तने श्वस्तनी कथं वाक्यार्थे स्यादिति चेत्, नैवम् । इहापि पदार्थ एव श्वस्तनः, किन्तु व्यामिश्रप्रतिपत्त्यर्थं श्वःशब्दोच्चारणं तदपवादा श्वस्तनी प्राप्नोतीति भावः । आशंसनमाशीः, सा च वर्तमानकालैव विषयधर्मेण शब्दोऽपि तथोपचर्यते आशस्यमानस्य भविष्यविषयत्वादाशीरपि भविष्यन्तीत्याह - आशीर्युक्त इत्यादि । ननु भविष्यविधानं यदि न क्रियते, आशिषि श्वस्तने श्वस्तन्येव प्राप्नोति परत्वात्, नैवम् । ताशी पाठमेव परेण कुर्याद् एवं हृदि कृत्वाह – यदस्या इत्यादि । श्वस्तने श्वस्तन्येव यथा स्यादिति स्वसंज्ञया विशेषणम् । अन्वर्थसंज्ञाया इत्यादि वर्तमानाद्यभिसंबन्धाद् विभक्तयोऽपि वर्तमानशब्दवाच्या इति ? सत्यम् । लोके हि व्युत्पादिता अपि संज्ञा निरन्वया दृश्यन्ते । यथा मण्डं पिबतीति मण्डपः, मह्यां रौतीति मयूर इति ।। ४३२।