________________
६८
कातन्त्रव्याकरणम्
इन्द्रियाणामविषयः एव किं परोक्षविशेषणेन व्यवच्छेद्याभावादिति न देश्यम्, प्रत्यक्षसाधनद्वारेण तदभिनिवर्त्यमानक्रियायामपि प्रत्यक्षावगमो लोके।
ननु च साधनान्यपि नैव प्रत्यक्षाणि तेषां शक्तिस्वभावात् शक्तेश्च कार्यानुमेयत्वात्, न ह्यशक्तं कार्यं करोतीति कार्यदर्शनेन शक्तिरनुमीयते । नैवम्, द्रव्याश्रिता हि शक्तयो द्रव्यस्य प्रत्यक्षत्वादाश्रयधर्ममाश्रितेषु शक्त्यर्थेषु असाधनेषूपच-साधनान्यपि प्रत्यक्षाण्युच्यन्ते । तदेव साधनाश्रयं द्रव्यम्, शक्तिशक्तिमतोर्भेदस्याविवक्षितत्वात् साधनशब्देनोच्यते । ननु चात्मसाध्यायाः क्रियायाः प्रत्यक्षत्वादुत्तमो न सिध्यतीति विताह - कथमित्यादि । चित्तस्य विक्षेपादिति यदा व्यामूढचित्तेन व्यासक्तचित्तेन वा क्रियते या, सा हि निवृत्तिकालेऽनुपलब्धा फलेनानुमीयते, तदा तस्या अपि परोक्षतया निवृत्तिर्भवतीत्यर्थः । अत्यन्तापहवेऽपि परोक्षा न वक्तव्या एवेत्याह - नाहमित्यादि । अपह्नवोऽपलापः स कश्चिद् अत्यन्तं भवति यः सर्वथा अपह्नवः, कश्चिद् अनत्यन्तं य एकदेशापहवः । स हि वक्ता स्वयं कृतमपि कलिङ्गगमनं सनिमित्तमपि निर्निमित्तमेव प्रतिपद्यते गमनस्य दोषेण योगात् फलेनायोगाद् वा सर्वमेव न प्रतिपद्यते सर्वथापढुवानश्च प्रत्यक्षमप्यपहृते इत्यर्थः । उक्तं च -
कृतस्यास्मरणे कर्तुरत्यन्तापहवेऽपि च।
दर्शनादेरभावेऽपि त्रिषु विद्यात् परोक्षताम् ॥ इति । परोक्ष इत्यादि दर्शनयोग्यत्वादिति शक्यदर्शनत्वाद् दर्शनविषयोऽप्यननुभूतत्वात् परोक्ष इति भावः । एतदुक्तं भवति - बहवस्तु यागं प्रत्यक्षेणैवोपलब्धवन्तः, प्रयोक्ता तु क्रियान्तरव्यासङ्गादालस्याद् दौर्मनस्याद् वा न प्रत्यक्षेणैवोपलब्धवान् इति | यस्तु कंसवधेन तुल्यकालः प्रयोक्ता स ह्यस्तनीमेव प्रयुक्तवान् - अहन् कंसं वासुदेवः इति । इतिहशश्वद्भ्यां ह्यस्तनीति न वक्तव्यम्, इतिहशश्वद्भ्यां परस्माद् धातोस्तिनी परोक्षा च विवक्षयेति । इतिहाकरोत्, शश्वदकरोत् । इतिह चकार, शश्वच्चकार । एवं स्मृतिवचनस्य प्रयोगेऽपि ‘स्मरसिच्छात्र ! काश्मीरेषु कटम्' इति । इतिहाकुर्म, शश्वदकुर्मेति । तथा पृच्छ्यमाने चासन्नकाले कश्चित् किञ्चित् पृच्छति- किमगच्छत्ताम्रलिप्तीम्, किं जगाम ताम्रलिप्तीम् ? ह्यस्तन इत्यादि । "सायंचिरंपाहेप्रगेऽव्ययेभ्यस्तनद्" तमादिनिपातनात् । ह्यस्तनेऽतीते परोक्षे प्रत्यक्षे च ह्यस्तन्येव न परोक्षा, न चाद्यतनीत्यर्थः । परस्त्वनद्यतनेऽतीते ह्यस्तनीम्, अद्यतने परोक्षे च परोक्षां विधत्ते, तद्दर्शनमाश्रित्य कश्चिदाह - ह्य प्रभृतिर्भूतविशेषः, पक्षमाससंवत्सरादिकालो ह्यशब्देन