________________
कातन्त्रव्याकरणम्
५८ वर्तमानत्वेन वर्तमाना विभक्तिः सिद्धैव, न तदर्थं सम्प्रतिग्रहणम्, किन्तु 'तस्थुः स्थास्यन्ति गिरयः' इत्यादौ विभक्त्यन्तरप्रवृत्तिरेव तत्फलमिति वाच्यम्, यावता गिरीणामनतीतत्वेऽपि गिरिसम्बन्धिनां राज्ञां वर्तमानक्रियायां वर्तमानत्वं गिरेश्च स्थितिकियायां वर्तमानत्वमध्यारोप्य वर्तमानाविधानेनैव सम्प्रतिग्रहणस्य सार्थकत्वम् । सत्यम्, अत्रारोप्ये वर्तमाने साहजिके वर्तमानेऽपि वर्तमानाविधानादुत्तरत्रापि दृष्टपरिकल्पनावशात् साक्षात् परम्परया वा साधारणयोर्भूतभविष्यतोहणं भविष्यति । एवं च सति 'सम्प्रति' इत्यस्य व्यावृत्तिबलादित्यस्याः पङ्क्तेरयमाशयःसम्प्रतिग्रहणस्य वैयर्थ्यभयादारोपेण 'तिष्ठन्ति गिरयः' इति यत् साधितं तद् दृष्टपरिकल्पनावशादिति साध्याहारयोजना । ___ यद् वा विनापि सम्प्रतिग्रहणं वर्तमानेति पृथग्वचनादेव परम्परया वर्तमाना वर्तमानत्वाध्यारोपेऽपि सिद्धैव, अन्यथा "स्मेनातीते वर्तमाना" इत्येकमेव सूत्रं कृतं स्यात्, किं सम्प्रतिग्रहणेन । न च पृथग्वचनाभावे स्मनातीते वर्तमानेति सूत्रेण यत्रैव स्मशब्दयोगस्तत्रैव वर्तमाना स्यान्नान्यत्रेति वाच्यम् । वर्तमानेति अन्वर्थबलेन "शेषात् कतरि" (३।२।४७) इत्यादिविधिवाक्यैरेवान्यत्र सम्भवात्, तस्मात् सम्प्रतिग्रहणमस्मिन् प्रकरणे साक्षात् परम्परया वा साधारणकालस्य ग्रहणं ज्ञापयतीति । वस्तुतस्तु सम्प्रतिग्रहणं वर्तमानाया एककालनियमार्थं वर्तमानकाल एव वर्तमानेति, तेनान्यासां स्वसंज्ञाविशेषणव्यभिचारात् कालान्तरेऽपि प्राप्तिरिति सूचयति । तेन ह्यस्तन्यद्यतन्योभूतसामान्येऽपि प्राप्तिरिति ।। ४२७।
[समीक्षा]
पाणिनि ने वर्तमान अर्थ में लट् लकार का विधान किया है - "वर्तमाने लट्" (अ० ३।२।१२३), लट् आदि १० लकारें सांकेतिक हैं, अत: उनका निर्देश अत्यन्त कृत्रिम है, स्वाभाविक या अन्वर्थ नहीं । अर्थदृष्ट्या पाणिनि तथा कातन्त्रकार दोनों के समान निर्देश हैं, किन्तु लट् का विधान विशुद्ध कृत्रिम (यादृच्छिक) है, जबकि वर्तमाना का प्रयोग अन्वर्थ रूप में किया गया है |
[विशेष वचन]
१. परैस्तु सम्प्रति द्रव्यसमवेतास्वपि क्रियासु अतीतानागतविवक्षा लौकिकीति मन्यते (दु० टी०)।
२. हैहयादिवंशे ये राजानो बभूवुस्तेषां याः क्रिया भूतवत्यस्तासामतीतत्वापेक्षया तस्थुरित्युच्यते, तथा वर्तमानराजादुत्तरे ये भविष्यन्ति राजानस्तेषां याः क्रिया भाविन्यस्तासां भविष्यत्त्वापेक्षया स्थास्यन्तीति (वि० प०)।