________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
याः क्रियास्तासु वर्तमानासु यथा स्यात् । यद्येवं ' तस्थुः, स्थास्यन्ति पर्वता:' इति न प्राप्नोति, न हि तेषामतीतानागतभावोऽस्ति सदा सन्निधानात्, यद्यपि स्वतो नास्ति तथापि परतो भविष्यति सम्प्रतीत्यस्य व्यावृत्तिबलात् । हैहयादिवंशे ये राजानो बभूवुस्तेषां याः क्रियास्तास्वतीतासु वर्तमानराजाद्युत्तरं ये राजानो भविष्यन्ति तेषां याः क्रियास्तासु भविष्यन्तीषु इति । परैस्तु सम्प्रति द्रव्यसमवेतास्वपि क्रियासु अतीतानागतविवक्षा लौकिकीति मन्यते ।। ४२७ ।
1
५७
[वि० प० ]
1
सम्प्रति । अथ किमर्थं सम्प्रतिग्रहणम्, यावता तासां स्वसंज्ञाभिः कालविशेष इति वचनाद् वर्तमाने काले वर्तमाना सिद्धैवेति ? सत्यम्, सम्प्रति ये राजानस्तेषां याः क्रियास्तासु वर्तमानासु वर्तमाना यथा स्यात् । तिष्ठन्ति गिरय इति । तेन ... ' तस्थुः स्थास्यन्ति गिरयः' इत्यपि सिद्धम् । यद्यपि तेषां गिरीणां सदा सन्निहितत्वात् स्वतोऽतीतानागतभावो नास्ति तथापि परतो भविष्यति सम्प्रतीत्यस्य व्यावृत्तिबलात् । तथाहि हैहयादिवंश्ये ये राजानो बभूवुस्तेषां याः क्रिया भूतवत्यस्तासामतीतत्वापेक्षया तस्थुरित्युच्यते । तथा वर्तमानराजादुत्तरे ये भविष्यन्ति राजानस्तेषां याः क्रिया भाविन्यस्तासां भविष्यत्त्वापेक्षया स्थास्यन्तीत्याह - स्वसंज्ञयैवेति । तस्थुरिति स्था+ उस् । " चण् परोक्षा० " ( ३।३।७ ) इत्यादिना द्विर्वचने कृते “ शिट्परोऽघोष ः " ( ३ | ३ | १० ) इति सकारलोपः, “द्वितीयचतुर्थयोः प्रथमतृतीयौ ” ( ३ | ३ |११ ) इति थकारस्य तकारः, “आलोपोऽसार्वधातुके" ( ३।४।२७) इत्याकारलोपः ।। ४२७ । [क० च०]
सम्प्रति० | सत्यमित्यादि । ननु राजगतक्रियासु वर्तमानासु सतीषु सम्प्रतिग्रहणं विनापि वर्तमाना सिद्धैव, कथं सम्प्रतिग्रहणस्य फलमिदमुच्यते ? नैवम् । राजगतक्रियासु वर्तमानत्वमध्यारोप्यं यद् वर्तमानत्वं तद्गरिगतस्थितिक्रियायामध्यारोप्य वर्तमाना यथा स्यादित्यभिप्रायः । अत एवोक्तम् - तिष्ठन्ति गिरय इति । तेनेत्यादि । परकीयक्रियागतवर्तमानत्वाध्यारोपेण वर्तमानत्वं प्रयोगदर्शनात् परकीयक्रियाया अतीतत्वं भविष्यत्त्वं गिरिगतस्थितिक्रियायामध्यारोप्यातीतभविष्यद्विभक्तयः सिद्धा इत्यर्थः । एतदेव स्फुटीकुर्वन्नाह - यद्यपीति । सम्प्रतिग्रहणस्य वैयर्थ्यप्रसङ्गादित्यर्थः । ननु कथमेतदुच्यते, यावता 'तिष्ठन्ति गिरयः' इत्यत्रैव परकीयक्रियागतवर्तमानत्वमध्यारोप्य वर्तमानाविधानेनैव सम्प्रतिग्रहणस्य सार्थकत्वम्, कथं 'तस्थुः, स्थास्यन्ति गिरयः' इत्यत्र परकीयक्रियागतमतीत्वं भविष्यत्त्वं चाध्यारोप्य भूतभविष्यविभक्तिविधायकं स्यादिति । न च ' तिष्ठन्ति गिरयः' इत्यत्र गिरिगतस्थितिक्रियाया