________________
कातन्त्रव्याकरणम्
'अर्थवद्ग्रहणे नानर्थकस्य' (कात० प० ४) इत्यत्रैव स्यात्, न वृक्षाभ्याम् इत्यादौ । नैवम्, तदा घोषवतीत्यपनीय 'भ्ये' इति कुर्यात् । नहि इदमोऽकारस्य भकारमन्तरेणान्यत्र घोषवति सम्भवोऽस्तीति ? तदयुक्तम्, विष्णुपर्यायस्यार्थवतोऽकारस्य संभवात् तदर्थं घोषवद्ग्रहणं विज्ञायते, यथा आय- आनामिति ? सत्यम्, अनित्येयं परिभाषा । “ओदन्ताः” (१।३।१) इत्यत्रान्तग्रहणेन विज्ञापितमेव । वृक्षाय, वृक्षाणामिति अकारमाश्रित्य ङेवचनस्य यकारो नुरागमश्चामि परतः । ततः 'सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' (कात० प० ३१ ) इति नाशङ्कनीयम् ।
५६
एवं तर्हि भकार एव दीर्घमित्युक्तं स्यात्, नहि स्यादौ भकारमन्तरेण घोषवान् वर्णोऽपरोऽस्तीति ‘“अकारो दीर्घं भे" इति विदध्यात् न चैवं कृतम्, तस्माद् घोषवद्ग्रहणमेव ज्ञापयति –वर्णग्रहणे निमित्तत्वादस्तीयं परिभाषेति, तद्बलाच्च दीर्घ इति ।। ९३ ।
[क० च० ]
अकारः । घोषवति विभक्ताविति । नन्वत्र विभक्तेर्न विशेष्यत्वं घोषवति, अनित्यकरणाद् विभक्तिसमुदायस्य घोषवत्त्वाभावाच्च । यदि च घोषवान् वर्णो विशेष्यः विशेषणं विभक्तिस्तदा कथं सामानाधिकरण्येनान्वयः, विभक्तेः समुदायवृत्तित्वात् । समुदायस्य घोषवत्त्वाभावादित्याह - भिन्नाधिकरणोऽयमिति । ननु जसीत्यादिषु स्यादय एव श्रूयन्त इति कथमुच्यते, यावता स्यादिभिन्नयोरपि जस्शसोः संभवः । यथा नरजसनम् अल्पश इत्याह - अथवेति । "स्मै सर्वनाम्नः " ( २।२।२५ ) इत्यादिषु लिङ्गप्रकृतय एव श्रूयन्त इति । ननु यथा लिङ्गप्रकृतय एव श्रूयन्ते तथा पूर्वपूर्वसूत्रे सामान्यमपि श्रूयते |
तथाहि लिङ्ग्ङ्गस्य धातोर्वेति, नैवम् “अस्य वमोर्दीर्घः” (३।८।११) इत्याख्याते दीर्घविधानादत्र लिङ्गस्यैव भविष्यति, तदयुक्तम् । आख्याते घोषवति " अस्य वमोः” परत एव दीर्घो भवति, नान्यस्मिन्निति नियमार्थं भविष्यति, तस्य व्यावृत्त्या 'पचध्वम्, यजध्वम्' इत्यत्रानेनापि न दीर्घः । नैवम्, तत्र “धुटि बहुत्वे त्वे" (२।१।१९) इत्यस्य विषयत्वेन दीर्घो न भविष्यतीति चेत्, जहीति वृत्त्या दीर्घो न भविष्यतीति, " हन्तेर्ज
""
हौ” ( ३ | ४ ४९) इति जादेशकरणाद् दीर्घो न भविष्यतीति गुरवः । नैवम् ।