________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
"
ननु कथम् आभ्याम्, नायं लिङ्गान्त इति ? नैवम् | नात्रान्तग्रहणमस्ति प्रायोवृत्तितया निगद्यते लिङ्गस्यान्तो लिङ्ग वा अकार इति यद्येवमिहैव स्यात् । 'अर्थवद्ग्रहणे नानर्थकस्य' (कात० प० ४ ) इति न वृक्षाभ्यामिति । अत्र इदमोऽकारश्चेत् ते इति विदध्यात्, नैवम् | विष्णुपर्यायस्याकारस्यापि संभवाद् आय, आनामिति न सिध्यति ? सत्यम्, अनित्येयं परिभाषेति ज्ञापितमेव । यस्तु लिङ्गमधिकृत्य तदन्तं विशेषयति अकारान्तं लिङ्गं दीर्घमापद्यत इति तदा 'आद्यन्तवदेकस्मिन्' (कात० प० २१) इत्युपचाराद् आभ्याम् इति भवति, स्यादिमधिकृत्य च घोषवदादौ स्यादाविति 'वर्णग्रहणे तदादौ कार्यसम्प्रत्ययः' ( द्र० क० व्या० पृ० २२२, सं०७०) इति प्रतिपद्यते । ननु दीर्घो भवन् 'स्थानेऽन्तरतमः ' ( कात०प० १६ ) इति चेद् आग्रहणमेव कथं न कुर्यात् ? सत्यम्, विचित्रार्थमेव ।
५५
ननु ‘वृक्षाय, वृक्षाणाम्' इत्यत्र अकारमाश्रित्य यकारादेशौ नुरागमश्च जातस्तस्मात् ‘सन्निपातलक्षणो विधिरनिमित्तं तद्विघाताय ' ( कात० प० ३० ) इति दीर्घो न स्यात् । नैवम्, भे इति कर्तव्ये यद् घोषवद्ग्रहणं करोति तदवसीयते वर्णग्रहणे निमित्तत्वाद् इत्यस्तीयं परिभाषेति ।। ९३ ।
[वि० प०]
अकारः । घोषवति विभक्ताविति भिन्नाधिकरणोऽयं विशेष्यविशेषणभावः । विभक्तिविषये यो घोषवान् वर्णस्तस्मिन्नित्यर्थः कथमेतद्, यावता विभक्त्यधिकारस्याभावात् ‘भारहारः’ इत्यादिष्वपि दीर्घः स्यादिति न देश्यम् । प्रकरणबलाद् विधिप्रकरणे ह्यस्मिन् जसीत्यादिषु विधिवाक्येषु स्यादय एव श्रूयन्ते । ततश्च स्यादिप्रकरणबलात् तद्विषये घोषवान् वर्णः प्रतिपत्तव्यः । स्यादयश्च विभक्तय इति । अत एवाकारो लिङ्गान्त इत्युक्तम्, स्यादीनां लिङ्गमन्तरेणासंभवात् ।
अथवा “स्मै सर्वनाम्नः” (२।१।२५) इत्यादिषु लिङ्गप्रकृतय एव दृश्यन्ते, ततो लिङ्गप्रकरणत्वाल्लिङ्गस्यैव दीर्घादिविधिरिति कुतोऽन्यत्र प्रसङ्गः । अत एवाख्याते दीर्घविधानार्थम् ‘“अस्य वमोर्दीर्घः” (३ | ८ | ११) इति सूत्रान्तरमुक्तम् । आभ्यामिति । इदम् + भ्याम | त्यदाद्यत्वम् " अद् व्यञ्जनेऽनक् (२|३ | ३५) इति अदादेश इति । इह लिङ्गान्तत्वाभावेऽपि दीर्घः । न खलु अत्र अन्तग्रहणमस्तीति लिङ्गस्यान्तो लिङ्गं वाऽकारः इत्यर्थः । न चाकारेण तदन्तविधिरुपलभ्यते, लिङ्गस्यैवानधिकृतत्वात् किं तेन विशिष्यते । यदुक्तं वृत्तौ लिङ्गान्त इति तत् प्रायोवृत्तिमाश्रित्य वेदितव्यम् । यद्येवम्
""