________________
कातन्वयाकरणम्
[रूपसिद्धि]
१. पयांसि । पयस् + जस् । “जस्शसौ नपुंसके' (२।१।४) से जस्प्रत्यय की घुट्संज्ञा, "जस्शसोः शिः" (२।२।१०) से जस् को 'शि' आदेश , पयस्शब्दस्थ स् की प्रकृत सूत्र से धुट्संज्ञा, "धुट्स्वराद् घुटि नुः" (२।२।११) से नु आगम, “सान्तमहतोर्नोपधायाः" (२।२।१८) से दीर्घ तथा "मनोरनुस्वारो घुटि" (२।४।४४) से न् को अनुस्वार ।
२. अपक्त । पच् + त (अद्यतनी)। "अड् पात्वादिस्तिन्ययतनीक्रियातिपत्तिषु" (३।८।१६) से 'अट्' आगम, “सिजवतन्याम्" (३।२।२४) से सिच् प्रत्यय, प्रकृत सूत्र से च् तथा त् की 'धुट्' संज्ञा "पुटश्च धुटि" (३।६।५१) से सिच्-लोप एवम् "चजोः कगौ पुइयानुबन्धयोः" (४।६।५६) से 'च' को 'क्' आदेश ।। ९२ ।
९३. अकारो दीर्घ घोषवति [२।१।१४] [सूत्रार्थ]
घोषवत्-संज्ञक विभक्ति के परवर्ती होने पर लिङ्ग (प्रातिपदिक) के अन्तिम ह्रस्व वर्ण को दीर्घ आदेश होता है ।।९३ ।
[दु० वृ०]
अकारो लिङ्गान्तो घोषवति विभक्तौ दीर्घमापद्यते । आभ्याम्, वृक्षाय, वृक्षाणाम् । घोषवतीति किम् ? वृक्षः ।।९३ ।
[दु० टी०]
अकारः । वर्णसमाम्नाये खल्वादिरकार इति तमधिकृत्य दीर्घादिविधिरन्वाख्यायते । कारशब्दः स्वरूपार्थ एव वर्णेभ्यः प्रयुज्यते । वर्णानां तु स्वरूपमभिधेयम् इति प्रथमा । लिङ्गमिह पुनरन्वाख्यातम्, यतो जसिप्रभृतिषु विधिषु स्यादय एव श्रूयन्त इति प्रकरणबलाद् घोषवान् वर्ण इह स्यादिविभक्तिविषय एव प्रतिपत्तव्यः । स्यादयश्च लिङ्गमन्तरेण न संभवन्तीति । अथवा वक्ष्यमाणेषु विधिषु लिङ्गप्रभृतय एव श्रूयन्ते, ततोऽविनाभावसंबन्धात् स्यादय एव अन्तरङ्गा गम्यन्ते, तेन 'भारहारः' इति न दीर्घ इति । पचध्वम्, यजध्वम् इत्यत्र च कुत एत्वं धुटि, येन "अस्य वमोर्दीर्घः" (३।८।११) इति लिङ्गार्थं ज्ञापकमुच्यत इति ।