SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये प्रथमो धातुपादः तत् किं व्यञ्जनग्रहणेन ? नैवम् । अन्तस्थानुनासिका वर्णास्तत्साहचर्याद् वर्णस्यैव भविष्यतीत्युक्ते स्वरव्यञ्जनयोरेव सामान्येनोपपद्यत इति व्यञ्जनग्रहणम् । ननु तथापि न क्रियताम्, "धुट्स्वरान घुटि नुः" (२।२।११) इत्यत्र स्वरग्रहणादेव स्वरस्य धुसंज्ञा न भविष्यति । अन्यथा “धुटो नुः" इति विदध्यात् । नैवम्, तत्रैव स्वरग्रहणस्य प्रयोजनमुक्तम् । तथाहि 'सुकर्तृणि, सुसखीनि' इत्यत्र “धातोस्तृशब्दस्यार, घुटि चै" (२।१।६८; २।२४) इति न प्राप्नोतीति सार्थकं व्यञ्जनग्रहणमिति । ननु तथाप व्यञ्जनग्रहणं न क्रियताम्, तदभावेऽपि व्यञ्जनस्यैव धुसंज्ञा भविष्यति । तथाहि यदि केवलं व्यञ्जनस्य धुट्संज्ञा न भविष्यति, तदा आख्याते सिज्लोपविधौ "हस्वाच्चानिटः, इटश्चेटि" (३।६।५२, ५३) इति सूत्रद्वयविधानमनर्थकम् "घुटश्च धुटि"(३।६।५१) इत्यनेनैव सिद्धेः । नैवम् । “हस्वाच्चानिटः" (३।६।५२) इति नियमार्थम् भविष्यतीति वाच्यम् । तथाहि स्वरधुटां मध्ये ह्रस्वादेव सिचो लुग् भविष्यति न दीर्घादिति अनैषीदिति सिद्धम् । तथा इटः सिचो लोपो भवन् इट्येव, तेनानिटि न स्यात् । यथा अकणिषम् इति व्यञ्जनग्रहणं सार्थकमिति । यदि पुनरिदं व्याख्यायते अन्तस्थानुनासिकं तावद् व्यञ्जनम्, तत्साहचर्याद् अन्त्यव्यञ्जनस्यैव भविष्यति । तदा सुखार्थ व्यानग्रहणमिति भावः ।।९२। [समीक्षा] कातन्त्रकार ने “अनुनासिका ङ-ञ-ण-न-माः” (१।१।१३) से 'ङ्, ञ्, ण्, न्, म्' वर्गों की अनुनासिक संज्ञा एवम् “अन्तस्था यरलवाः” (१।१।१४) से 'य, र, ल, व्' वर्गों की अन्तस्था संज्ञा की है। इन ९ वर्णों को छोड़कर शेष २५ व्यञ्जन वर्णों की कृत्रिम 'धुट्' संज्ञा कातन्त्र में की गई है - क्, ख्, ग्, घ्, च्, छ्, ज, झ्, ट्, ठ, ड्, द्, त्, थ्, द्, ध्, प, फ, ब, भ, श्, ए, स्, ह्, क्ष् । पाणिनीय व्याकरण में माहेश्वरसूत्रस्थ ये ही वर्ण (क्ष् को छोड़कर) झल् प्रत्याहार में आते हैं - (१) झ भञ्, (२) घ ढ धष्, (३) ज ब ग ड दश्, (४) ख फ छ ठ थ च ट तव्, (५) क पय् , (६) श ष सर्, (७) हल् । _ 'धुट्' और झल्' दोनों ही कृत्रिम संज्ञाएँ हैं | अतः इनकी अन्वर्थता और उत्कर्षापकर्ष बताना संभव नहीं है ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy