________________
कातन्त्रव्याकरणम्
इटश्चेटि"(३।६।५२, ५३) इति विधानाद् “घुट्स्वराद् घुटि नुः" (२।२।११) इत्यत्र स्वरग्रहणाच्च स्वराणां धुसंज्ञा नास्तीति अवगम्यते । तदयुक्तम् । ह्रस्वादेव सिचो लोपो यथा स्याद् दीर्घा मा भूत । अनैषीदिति । “इटश्चेट्येव अनिटः” इति वर्जने सति विधिर्वा "घुट्स्वराद् घुटि नुः" (२।२।११) इत्यत्र च स्वरग्रहणं स्वरदर्शनादेवान्तरङ्गमप्यारमैत्वं च बाधित्वा नुरेव यथा स्यात् - 'सुकर्तृणि, सुसखीनि' इति । तर्हि घञादीनां घकारकरणं किमर्थम्, धुटीत्युक्तेऽपि चजोः कगौ भवत एव, नैवम् । कृत्स्वराणां धुट्संज्ञा नास्तीति ज्ञापयिष्यति । किञ्च विसर्जनीयानुस्वारयोरपि धुसंज्ञा स्यात् जिह्वामूलीयोपध्मानीययोर्वचनबलान्न भविष्यति । ततश्च संगम्यते, पचाम इति । "अघोष प्रथमः, पदान्ते घुटां प्रथमश्च" (२।३।६१; ३।८।१) प्राप्नोति ।।९२ ।
[वि० प०]
धु । पयांसीति सकारस्य धुट्त्वे "पुट्स्वराद् घुटि नुः" (२।२।११) इति सकारात् प्राङ् नुरागमः । “सान्तमहतो!पधायाः" (२।२।१८) इति दीर्घः । अपक्त इति । पच्, अद्यतनी त, ततः अडागमः, सिच्, “धुटश्च धुटि" (३।६।५१) इति सिचो लोपः । चत्वारीति । जस्शसोः शिः। अमंस्त । मन ज्ञाने । धुट्त्वाभावाद् न्वागमसिच्लोपौ न भूतौ ।।९२।
[क० च०]
धु० । ननु अमंस्त इति कथं प्रत्युदाहृतम्, यावता व्यक्तिबलादेव नकारस्यानुस्वारे कृते धुट्वाभावादेव सिचो लोपो न भविष्यति ? सत्यम्, वर्गे वर्गान्तः (२।४।४५) इत्यत्र मनोरनुवृत्तिपक्षे वर्गे वर्गान्तत्वविषया एव व्यक्तिराश्रयणीया । नन्वनुस्वारविधाविति यन्मतं तन्मतमवलम्ब्येदम्, एतच्चानुस्वारस्य नियतस्थानव्यञ्जनत्वमिति पक्षे । अन्यथा अनुस्वारस्य धुट्त्वमेवेति न दोषः । सामान्यतो व्यञ्जनत्वपक्षेऽपि न तस्य धुटसंज्ञा, पूर्वत्रोत्तरत्र च प्रधानवर्णप्रस्तावादिति भावः ।
यद् वा अनुस्वारविधौ तु यदि व्यक्तिराश्रीयते तदा "धुटश्च धुटि''(३।६।५१) इत्यत्रापि व्यक्तिराश्रयणीया | अपामेति प्रत्युदाहरणमित्येके। यदि विभक्तिव्यत्ययेन व्यञ्जनानुवृत्तिः क्रियते, तदा व्यञ्जनग्रहणं सुखार्थम् । ननु धुडनन्तस्थानुनासिकम् इति कृतेऽपि यादृग्जातीयस्येति न्यायाद् व्यञ्जनस्य धुटसंज्ञा भविष्यति, न तु स्वरस्येति