________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
“हेरकारादहन्तेः " ( ३ | ४ | ३३) हन्धातोः प्रतिषेधात् 'जहौ' इति न भविष्यति ? सत्यम् | यदि पूर्वदृष्ट्या सामान्यमाश्रीयते, तदा "अस्य वमोः” (३।८।११ ) इत्यस्य नियमत्वं स्यात् । यदि तु परदृष्ट्या स्यादय एवाश्रीयन्ते, तदा " अस्य वमोर्दीर्घः " ( ३।८।११) इत्यस्य विधित्वं स्यात् ।
५७
ननु एकस्मिन्नपि पक्षे का क्षतिः, 'विधिनियमसंभवे विधिरेव ज्यायान्' (कात० प०पा० ८४) इति न्यायात् तस्य विधित्वकल्पनं युक्तम् । अत एव पञ्जिकायां स्यादिप्रकृतय एव श्रूयन्त इति यदुक्तं तदुचितमिति घोषवद्ग्रहणेन ज्ञापयतीति । ननु तथापि घोषवद्ग्रहणं न क्रियताम्, भ्योरिति क्रियताम् ।'वृक्षाय' इत्यत्र यकारोपादानादेव भविष्यति । वृक्षाणाम् इत्यत्र तु न्वागमस्य तृतीयादौ त्विति परादित्वकरणादेव दीर्घो भविष्यति, अन्यथा तस्य परादित्वेन किं फलम् । नैवम् दीर्घादन्यदपि परादित्वस्य फलमस्ति, यथा क्रोष्टूनामिति । व्यञ्जनविषये नित्यं तुनिति । किं च वृक्षाणामित्यत्र परादित्वाभावात् प्रकृतिभक्तत्वे सति 'दध्ना' इतिवत् 'अवमसंयोगाद० ' (२ | २|५३) इत्यादिनाऽकारलोपः स्यात् । 'भ्योषु' इति कृतेऽप्यनयोरुपादानेन ज्ञापकं सिध्यति । यद् घोषवद्ग्रहणं तत् श्रुतिसुखार्थमिति । अन्यथा उच्चारणगौरवं स्यादिति भावः । अथाकारग्रहणं किमर्थम्, न च 'अग्निभ्याम्' इत्यादौ दीर्घः स्यादिति वाच्यम्, नामिनां “दीर्घमाम़ि सनौ” (२ । २ । १५) इति दीर्घविधानात् । अन्यथा 'अग्नीनाम्' इत्यादिष्वप्यनेनैव दीर्घो भविष्यति किं तेनेति ? सत्यम् । नियमार्थं तत् सूत्रं भविष्यति नामिनां दीर्घो भवन् आमूविशिष्टे न्वागम एव न तु टादिविशिष्टे, तेन 'वारिणा' इत्यादिषु न दीर्घः । ततोऽकारग्रहणाभावे ‘अग्निभ्याम्' इत्यत्र दीर्घः स्यादतोऽकारग्रहणम् ॥ ९३ ॥
[समीक्षा]
कातन्त्रकार ने 'ग्-घ्-इ-ज् ज्ञ्-ञ्- ड् ढ् ण्-द्-ध्-न्-ब्-भू-म्-य्-र्-ल्-व्-ह्-' इन बीस वर्णों की घोषवत् संज्ञा की है - " घोषवन्तोऽन्ये" (१।१।१२) । इन्हीं वर्णों के पर में रहने पर लिङ्गान्त्य ह्रस्व अकार को दीर्घ आदेश होता है । पाणिनि ने “नामि" (अ० ६ । ४ । ३) तथा “सुपि च " (अ० ७ । ३ । १०२ ) इन दो सूत्रों द्वारा दीर्घविधान किया है । कार्यों तथा कार्य का निर्देश अपनी-अपनी परम्परा के अनुसार है - कातन्त्र में कार्य (स्थानी ) प्रथमान्त है तथा कार्य द्वितीयान्त । जबकि पाणिनि स्थानी का षष्ठ्यन्त तथा कार्य का निर्देश प्रथमान्त करते हैं ।