________________
कातन्त्रव्याकरणम्
३. श्रद्धासंज्ञकेभ्यः शब्देभ्यः परवर्तिनां 'डे - उसि - ङस् - ङि' इत्येतेषां प्रत्ययानां स्थाने क्रमेण 'यै - यास् - यास् - याम्' इत्येते आदेशाः "वन्ति यै-यास् - यास् - याम्" (२।१।४२)इति ।एतेन श्रद्धायै - श्रद्धायाः- श्रद्धायाः- श्रद्धायाम् । मालायै - मालायाःमालायाः- मालायाम्' प्रभृतीनि शब्दरूपाणि सारल्येन निष्पद्यन्ते । पाणिनीये याडागम - वृद्धि - सवर्णदीधैरेतानि साध्यन्ते ।
४. श्रद्धासंज्ञकेभ्यः सर्वनामशब्देभ्यः समागतानां ङवतां प्रत्ययानां यथासंख्यं 'यै - यास् - यास् - याम्' इत्येते आदेशा ह्रस्वपूर्वाः सुना सह भवन्ति - " सर्वनाम्नस्तु ससवो हस्वपूर्वाश्च" (२।१।४३)। तेन - 'सर्वस्यै - सर्वस्याः- सर्वस्याः- सर्वस्याम्' इत्यादयः शब्दा लाघवेन सिध्यन्ति । पाणिनिना स्याडागम - वृद्धि - सवर्णदीधैरेते संसाधिताः।
५. नदीसंज्ञकेभ्यः शब्देभ्यः परवर्तिनां ङवतां प्रत्ययानां स्थाने यथासंख्यम् 'ऐ -आस् - आस्-आम्' इत्येते आदेशाः "नया ऐ-आसासाम्" (२।१।४५)। अनेन विधिना 'नौ - नद्याः- नद्याः- नद्याम् । वध्यै - वध्वाः- वध्वाः-वध्वाम्' इत्यादीनि रूपाणि लघुनोपायेन साध्यन्ते । पाणिनीये एतदर्थम् आडागम - वृद्धि - सवर्णदीर्घविधयः समाद्रियन्ते ।
६. सिविभक्तिसहितयोस्त्वन्मदोर्युष्मदस्मदोश्च स्थाने यथासंख्यं 'त्वम् - अहम्' इत्येतावादेशौ - "त्वमहं सौ सिविभक्त्योः " (२।३।१०)। अनेन निर्देशेन ‘त्वम् -
अहम् - अतित्वम् - अत्यहम्' इत्यादिशब्दसाधने प्रक्रियालाघवमनुभूयते । एतदर्थं पाणिनिना “त्वाहौ सौ" (अ० ७।२।९४) इत्यनेन 'युष्म् - अस्म्'- स्थाने 'त्वअह' आदेशौ, "शेषे लोपः' (अ० ७।२।९०) इत्यनेन ‘अद्' भागस्य लोपः, "डेप्रथमयोरम्' (अ०७।१।२८) इत्यनेन सुप्रत्ययस्यामादेशश्च विधीयते । तेन तत्र प्रक्रियागौरवं सन्निहितमेवास्ते ।
भिन्नरूपा विधयः
१. लिङ्गसंज्ञा - "धातुविभक्तिवर्जमर्थवल्लिङ्गम्" (२।१।१)। पाणिनीया प्रातिपदिकसंज्ञा तदर्थं प्रसिद्धिं भजते । परं प्रातिपदिकसंज्ञा भवति महती संज्ञा