________________
॥श्रीः।। भूमिका
सन्धिप्रकरणे वर्णकार्यं दर्शितम् । साम्प्रतं वर्णसमुदायरूपस्याद्यन्तपदकार्यनिरूपणमिष्यते । तदर्थं कातन्त्रे नामचतुष्टयप्रकरणं प्रारब्धम्, तत्र सन्ति षट् पादाः । प्राथमिके पादत्रितये षड्लिङ्गविषयो विवेचितः, तस्यैव किञ्चिद् वैशिष्ट्यमिह द्वितीयभागस्य प्रथमखण्डात्मके ग्रन्थे वक्ष्यते । नामचतुष्टयस्य चतुर्थपादे कारकम्, पञ्चमे समासः, षष्ठे च पादे तद्धितः संगृहीतः । एतत्पादत्रितयस्य समावेशो द्वितीयभागस्य द्वितीयखण्डात्मके ग्रन्थे सुनिश्चितः इति वेदितव्यम् ।
नामचतुष्टयाध्याये प्रायेण त्रिविधं विधानमवलोक्यते – किञ्चित् पाणिनीयव्याकरणेन प्रायेण साम्यं भजते, किञ्चित् सर्वथा नवीनमेव वर्तते यत् पाणिनीये नावेक्ष्यते, किञ्चिच्चैतादृशमस्ति यत् पाणिनीये भिन्नरूपमालक्ष्यते । तद् यथा नवीना योजना -
१. नित्यस्त्रीलिङ्गवाचिनाम् आकारान्तशब्दानां श्रद्धासंज्ञा - "आ श्रद्धा" (२।१।१०)। श्रद्धासंज्ञकेभ्यः शब्देभ्यः परस्य सिप्रत्ययस्य लोपे सति श्रद्धा - माला' प्रभृतीनि शब्दरूपाणि निष्पद्यन्ते - "श्रद्धायाः सिर्लोपम्"(२।१।३७) इति । पाणिनीये संज्ञेयं नैव समादृता ।
२. लिङ्गस्य धातोर्वा अन्त्यव्यञ्जनात् पूर्ववर्तिनो नकास्यानुषङ्गसंज्ञा - "व्यञ्जनान्नोऽनुषङ्गः" (२।१।१२) इति । 'विद्वन्स् - सन्स्' प्रभृतिशब्देभ्योऽनुषङ्गसंज्ञकस्य नकारस्य "अनुषङ्गश्चाक्रुश्चेत्" (२।२।३९) इत्यनेन लोपे कृते सति 'विदुषः, स्रस्यते' इत्यादिरूपाणि साधूनि भवन्ति । पाणिनिना नेयं संज्ञा विहिता, परं पूर्वाचार्यकृतत्वादेषा महाभाष्यदीपिकाकारेण न्यासकारेण च स्मर्यते – “पूर्वाचार्यसंज्ञेयं नकारस्य" (म० भा० दी०, पृ० १३४) । “नकारस्योपधाया अनुषङ्ग इति पूर्वाचार्यः संज्ञा कृता" (न्या० १।१।४७) इति ।