________________
भूमिका
३
"
यावता लिङ्गसंज्ञा द्वयक्षरात्मकत्वाल्लघुसंज्ञैवास्ति अपि च 'लिङ्ग्यते चित्र्यतेऽनेनैकदेशेनार्थो गम्यते' इति व्युत्पत्तिदृशाऽन्वर्थताप्यस्याः सिध्यति । अविस्पष्टार्थप्रतिपत्तिहेतुरित्यर्थः । प्रसङ्गतो व्याख्याकारैरर्थपदस्य चत्वारोऽर्था दर्शिताः - अभिधेयः, निवृत्तिः, प्रयोजनम् धनं चेति । इह ग्रन्थप्रस्तावादभिधेयपरत्वमेवास्य गृह्यते । केषांचिदाचार्याणां मते जातिरेव शब्दार्थः, अन्येषां च मते द्रव्यमेव शब्दार्थोऽभिमतः, परञ्च कातन्त्रकारः उभयमेव शब्दार्थं स्वीकरोति । वर्णानामर्थवत्त्वमनर्थकत्वं चापि समीक्षितम् । शब्दानां चतुष्टयी प्रवृत्तिर्भवति - जातिद्रव्यगुणक्रियारूपत्वात् । परमत्र स्वाभाविकक्रमः स्वीक्रियते जातिक्रियागुणद्रव्यरूपः । यथोक्तम्
जातिक्रियागुणद्रव्यैः स्वभावाख्यानमीदृशम् ।
दण्डिनो मतमाश्रित्य दुर्गेणापीत्युदाहृतम् ॥ (क० च० २।१ । १ ) इति ।
२. घुट्संज्ञा - " पञ्चादौ घुट्, जश्शसौ नपुंसके” (२।१ । ३-४) । 'सि -औजस् - अम् - औ' इति पञ्चप्रत्ययानाम्, नपुंसके जस्शसोश्च संज्ञेयं निर्दिश्यते । एतेन 'राजा- राजानौ - सामानि' इत्यादौ दीर्घादिशः प्रवर्तते - " घुटि चासंबुद्धौ ” ( २।२।१७) । एकाक्षरात्मिका एषा लघुसंज्ञा, परं पाणिनिना प्रयुक्ता सर्वनामस्थानसंज्ञा वर्तते महती संज्ञा, अपि च पूर्वाचार्योपहासार्थमियं पाणिनिना निर्दिष्टेत्यपि अभिमतम् । तद् यथोक्तम् - " तस्मात् पूर्वाचार्यानुपालब्धुमेषा महती संज्ञा प्रणीता" ( द्र०, न्यासः १ । १ । ४२) इति ।
-
-
३. अग्निसंज्ञा – “इदुदग्निः" (२।१।८) । लिङ्ग्ङ्गसंज्ञकशब्दस्थयोरिकारोकारयोरग्निसंज्ञा विधीयते । तेन " अग्नेरमोऽकारः" (२।१।५०) इत्यनेन अग्निसंज्ञकात् परस्याकारस्य लोपे सति 'अग्निम् - पटुम्' इत्यादीनि रूपाणि सिध्यन्ति । पाणिनिरत्र " शेषो घ्यसखि, पतिः समास एव षष्ठीयुक्तश्छन्दसि वा " ( अ० १।४।७-९) इति सूत्रत्रितयेन घिसंज्ञां कृतवान् । इयं संकेतबोधिका संज्ञा हस्तचेष्टादिवत्, परमग्निसंज्ञाया अन्वर्थत्वमपि कल्पयितुं शक्यते - अग्निशब्दस्यापि लिङ्गसंज्ञान्तर्गतत्वात् । अत्रेकारेण उकारोऽपि उपलक्ष्यते ।