________________
कातन्त्रव्याकरणम्
विध्यादिनिर्देशे साम्यम्
लिङ्गात् पराः स्यादयो विभक्तयो भवन्ति । उकारानुबन्ध आगमोऽन्त्यस्वरानन्तरं प्रवर्तते । स्त्रीत्ववाचकलिङ्गस्थयोरीकारोकारयोर्नदीसंज्ञा । लिङ्गस्य धातोश्चान्त्याद् वर्णात् पूर्वस्य वर्णस्योपधासंज्ञा, 'आभ्याम् - वृक्षाय' इत्यादौ दीर्घविधानम्, वृक्षानित्यादौ सकारस्य नकारः, वृक्षरित्यादौ भिस ऐसादेशः, वृक्षादित्यादौ ङसेरादादेशः, वृक्षस्येत्यादौ उसः स्यादेशः, वृक्षणेत्यादौ टाविभक्तेरिनादेशः, वृक्षायेत्यादौ डेविभक्तेर्यादेशः, 'स्मै-स्मिन्-इ-ए' प्रभृतय आदेशाः ।सिलोप-अलोपौ, अकारस्योकारादेशः ‘सख्युः- पत्युः' इत्यादौ, सम्बुद्धिसिलोप-त्रेस्त्रयादेश - संख्यासंज्ञककार्यस्यमोलुक् - मुरागम - तुरागम - नुरागम - पुंवद्भाव - तिरश्चि-उदीचि - पदादेश - इयुवादेश - जरस् - तिस - चतसृ - एन - ड - ग - रादेशप्रभृतयो विधयः प्रायेण पाणिनीये कातन्त्रे चोभयत्र समानरूपेण निर्दिष्टाः सन्ति । तत्र प्रसङ्गतः किञ्चिद् वैशिष्ट्यं दर्शितं व्याख्यातृभिः, यथा -
विभक्तेरन्वर्यता - संख्याकर्मादयोऽर्था आभिर्विभज्यन्ते इति विभक्तयः (वि० प० २।१।२)
एकस्य बहूनां वा धातोर्लिङ्गस्य पदानां वा।
विभजन्त्यर्थ यस्माद् विभक्तयस्तेन ताः प्रोक्ताः॥(ना० शा० १४।३०)। सिद्धशब्दार्थाः- नित्यः, निष्पन्नः, प्रसिद्धश्च ।
आगमपदार्थः- प्रकृतिप्रत्यययोरनुपघाती आगमः । आगच्छतीत्यागमः । तथा चापिशलीयाः पठन्ति
आगमोऽनुपघातेन विकारश्चोपमर्दनात् ।
आदेशश्च प्रसनेन लोपः सर्वापकर्षणात् ॥ (वि० प०.२।१।६) 'अतिनरस्स्य, भिक्षुष्य' इत्यादौ इसः स्यादेशसिद्ध्यर्थं कलापचन्द्रकारः आचार्यसुषेणविद्याभूषणो युक्तिमुपन्यस्यन्नाह - "ऋषिप्रयोगादिति चिन्त्यम् । यद् वा - "इन टा, भिसैस् वा, डेर्यः, ङसिरात्, ङस् स्यः' इति क्रमेणैव पाठो युक्तः, कथं