________________
| জুনিক
व्यतिक्रमः ? तद् बोधयति- क्वचिद् व्यञ्जनान्तादुकारान्ताच्च स्यादिति"(२।१।२२), एतेन व्यत्यस्तक्रमरचनयाऽऽचार्यस्य विशेषाभिप्रायो लक्ष्यते । अत एव साधूक्तं महाभाष्यकारेण - "इहेङ्गितेन चेष्टितेन निमिषितेन महता वा सूत्रप्रबन्धेन आचार्याणामभिप्रायो गम्यते" (म० भा०६।१।३७) इति । उक्तमुदाहरणद्वयमेकस्मिन् श्लोके स्मर्यते
नवं नवं परिक्षिप्य पुराणमपकर्षतः।
अतिजरस्स्य भिक्षुष्य कन्या वर्षशतं गता॥ पतौ इति प्रयोगस्य प्रामाण्यविषये टीकाकारो निर्वक्ति- "गते मृते प्रव्रजिते क्लीबे च पतिते पतौ" (परा० स्मृ० ४।२६) इत्यादौं ऋषिवचनादन्येषां च यतेन सूत्रस्य योगविभागाद् वा क्वचित् सपूर्वोऽपि औ- इत्यादेशो भवतीति (द्र० - कात० वृ० टी० २।१।६१) । पितरः इति द्वितीयाबहुवचने साधु । अरादेशविधायके "अर् औ" (२।१।६६) इति सूत्रे कार्यिकार्यनिमित्तक्रमेणैव शब्दोपन्यासे कृतेऽपि वररुचिमतानुसारम् 'अर्' इत्यस्य प्राङ् निर्देशादत्र योगविभागोऽनुमन्यते, तेन -
उपोष्य रजनीमेकाममावास्यां तिलोदकैः।
पितरस्तर्पयामास विधिदृष्टेन कर्मणा ॥ (द्र०, कवि० २।१।६६) इत्यत्र 'पितरः' इति पदं द्वितीयाबहुवचनेऽप्युपपद्यते । व्याख्याकाराणां कानिचिद् विशिष्टवचनानि विचारा वा
१. कातन्त्रैकदेशीयो वररुचिः
कैश्चित् कातन्त्रैकदेशीयैरिति पक्षी । कातन्त्रशब्दोऽत्र सकलवैयाकरणपरः । कातन्त्रं ये विदन्ति सूरय इत्यर्थेऽण्प्रत्ययविधानात् तदेकदेशीयैर्वररुचिप्रभृतिभिरित्यर्थः (क० च० २।१।४१)।
२. शर्ववर्मणा पाणिनेरुपहासः
इह विदधद् यथासंख्यं लघुविस्पष्टार्थं प्रक्रियाविकलान् उपहसतीव भगवान् याट् - स्याट्-आटः प्रकुर्वाणान् (क० च० "नद्या ऐ-आसासाम्" २।१।४५)।