________________
कातन्त्रव्याकरणम्
३. कृत्प्रकरणं नैव शर्ववर्मप्रणीतम्
शर्ववर्मणा कृप्रत्ययविशेषविधानं नाम न कृतम् अभिधानतः, प्रकृतिप्रत्ययविभागकल्पना आदृतैवेत्यदोषः (वि० प० - धातोस्तृशब्दस्याऽऽर् २।१।६८)।
४. अनुकरणं विविधम्
तच्च (अनुकरणम्) द्विविधम् - शब्दानुकरणम् अर्थानुकरणं चेति । यत्र शब्दमात्रप्रतीत्यर्थमनुक्रियते उच्चार्यते तच्छब्दानुकरणम् । यत्रार्थमात्रप्रतीत्यर्थं शब्दोऽनुक्रियते तदर्थानुकरणम् (क० च० २।२।१)।
५. शन्दसप्रयोगः
अनड्वाहीमालभेतेति छन्दस्येव दृश्यते । भाषायामप्यन्ये वर्णयन्तीति । अयं पुनर्मन्यते - भाषायामीदृशः प्रयोगो न दृश्यते इति (दु० टी०, वि० प० २।२।४२)।
६. अन्यदपि किश्चित् स्मरणीयम् (१) सन्देहे नैव गुरुलाघवचिन्ता (२।१।६४)। (२) द्विविधा हि संज्ञाशब्दाः- व्युत्पन्ना अव्युत्पन्नाश्च (२।१।६९)। (३) समुदायप्रवृत्ताः शब्दा अवयवेऽपि वर्तन्ते (२।२।३१)। (४) को हि नाम दृष्टपरिकल्पनां विहायादृष्टं परिकल्पयतीति (वि०प०
२।२।४५)। (५) न क्षरति न चलतीति कृत्वा अक्षरं स्वर उच्यते पूर्वाचार्यैः (दु० टी०
२।२।५९)। (६) उणादिषु सर्वे विधयो विकल्प्यन्ते (दु० टी० २।२।६५)। (७) आख्यातप्रधानं हि वाक्यम् (दु० टी० २।३।१)। (८) एकवाक्याश्रितो हि संबन्धोऽन्तरङ्गः (दु० टी० २।३।१)। (९) मनोविज्ञानं हि स्मरणम् (दु० टी० २।३।४)। (१०) आम्नाय एव शरणमिति साम्प्रदायिकाः (क० च० २।३।७)।