________________
कातन्त्रव्याकरणम्
प्रधानता ख्यायते, तेन ‘भवद्भ्याम्, विद्वद्भ्याम्' इत्यत्र संयोगान्तलोपाद् अनुषङ्गलोप एव भवतीति केविदाचक्षते । तदयुक्तम् - वचनसामर्थ्यादनुषङ्ग एव लुप्यते, संयोगान्तलोपस्यालुप्तवद्भावाच्च नित्योऽयमनुषङ्गलोप इति । यथाकथंचिदियं व्युत्पत्तिरिति । व्यञ्जनादिति किमर्थम् “गमहन०" (३।६।४३; ४।६।७७) इत्यत्रानुषङ्गसंज्ञा मा भूदिति । 'विदुषः' इति वेत्तेः शन्तुर्वन्सुः । शस्, सि, उस् वा ।।९१। ।
[वि० प०]
व्यञ्जनात् । विदुष इति । विद ज्ञाने, शन्तृङ् । “क्तेः शन्तुर्वन्सुः" (४।४।४) इति वन्सुः । शस्, ङसि, ङस् वा । “अघुदस्वरादी०" (२।२।४६) इत्यादिना व्शब्दस्योत्वम् । अनेन नकारस्यानुषङ्गत्वे "अनुषश्चकुञ्चेत्" (२।२।३९) इत्यनुषङ्गलोपः । षत्वं नामिपरत्वात् । धातोरपि दर्शयति - सस्यत इति सन्सेः कर्मण्यात्मनेपदं 'ते' । “सार्वधातुके यण, अनिदनुबन्धानाम"(३।२।३१;६।१) इत्यादिनाऽनुषङ्गलोपः । ऊभ्याम् इति । ऊर्ज बलप्राणधारणयोश्चुरादित्वादन् । ऊर्जयतीति क्विप् ।।९१ ।
[क० च०]
व्यञ्जनात् । ननु ऊभ्याम् इति वृत्तौ कथम् प्रत्युदाहृतम्, यावता रेफस्य सत्यामप्यनुषड्गसंज्ञायां रात् सस्यैव लोप इति नियमस्य व्यावृत्तिबलादेव लोपो न भविष्यति ? सत्यम् । अत्राह हेमकर:- नियमस्य विरामव्यञ्जनादिषु विषयत्वाद् अघुटि स्वरे 'ऊर्जा' इत्यादिकं प्रत्युदाहरणं बोद्धव्यम् । महान्तस्तु ऊभ्यामित्येव प्रत्युदाहरणं युक्तम् । यावता विरामे 'ऊर्छ' इत्यत्र नियमव्यावृत्तिचरितार्थत्वम् इति दिक् ॥२१॥
[समीक्षा]
पाणिनि ने यह संज्ञा नहीं की है, परन्तु व्याख्याकारों ने इसका स्मरण किया है । "पूर्वाचार्यसंज्ञेयं नकारस्य" (म० भा० दी०, पृ० १३४)। "नकारस्योपधाया अनुषग इति पूर्वाचायः संज्ञा कृता" (न्यासः १।१।४७)।
काशकृत्स्नधातुव्याख्यान में इस संज्ञा के उपलब्ध होने से यह दृढतापूर्वक कहा जा सकता है कि पूर्वाचार्यों ने यह संज्ञा की थी - "अनुनासिकोऽनुषङ्गः" (का० धा० व्या०, सू० ७)।