________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
“ आतश्चोपसर्गे” (४ | ५ | ८४) इति अङ्ग्प्रत्ययः (उप + धा + अङ्) । पाणिनि का सूत्र है - "अलोऽन्त्यात् पूर्व उपधा” (अ०१ | १ | ६५) ।
पूर्वाचार्यों ने भी इस संज्ञा का प्रयोग किया है -
४९
निरुक्त – अथाप्युपधालोपो भवति - जग्मतुर्जग्मुरिति (२ । १) । अथाप्युपधाविका भवति - राजा दण्डीति ।
ऋकुप्रातिशाख्य- सहोपधोऽरिफित एकवर्णवद् विसर्जनीयः स्वरघोषवत् परः (१।६७) । अनुस्वारमुपधां वाऽन्यवर्णां स्वरोपधात् सोष्मयमोदयश्चेत् ( १४ । ५४ ) । वाजसनेयिप्रातिशाख्य – अन्त्याद् वर्णात् पूर्व उपधा (१।३५) ।
अथर्ववेदप्रातिशाख्य – यान्याकारोपधानि मकारान्तानि स्त्रियैकवचनानि ह्रस्वोपधानि पुंवचनानि (२।१।१५) ।
अर्वाचीन व्याकरणों में इसके लिए ङ् - संज्ञा का प्रयोग किया गया है -
जैनेन्द्रव्याकरण - उपान्त्याल् ङ् (१।१।६६) ।
मुग्धबोधव्याकरण - पूर्वोऽन्त्याद् ङ् (सू० ९१ ) ||१०| ९१. व्यञ्जनान्नोऽनुषङ्गः [२।१।१२]
[ सूत्रार्थ ]
लिङ्ग (प्रातिपदिक) अथवा धातु - गत अन्तिम व्यञ्जन वर्ण से पूर्ववर्ती कार की अनुषङ्ग संज्ञा होती है ।। ९१ ।
[दु० वृ० ]
लिङ्ग्ङ्गस्य धातोर्वाऽन्त्याद् व्यञ्जनाद् यः पूर्वी नकारः सोऽनुषङ्गसंज्ञो भवति । विदुषः, म्रस्यते । न इति किम् ? ऊर्भ्याम् | अनुषङ्गप्रदेशाः - “ अनुषङ्गश्चानुशेत्” (२।२।३९) इत्येवमादयः ।। ९१ ।
[दु० टी० ]
व्यञ्ज॰। इहानन्तरत्वाद् अन्त्यात् पूर्व इति वर्तते नेत्यकार उच्चारणार्थः । तेन ‘उपानद्' इत्यत्रानुषङ्गसंज्ञा न भवति । अनुषज्यत इत्यनुषङ्ग इति व्युत्पत्त्या अस्य