SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ४८ कातन्वयाकरणम् [दु० टी०] अन्त्यात् । पूर्वदिग्योगलक्षणा पञ्चमीयम् । उपधानम् उपधा । “आतश्चोपसर्गे" (४।५।८४) इत्यङ् । तत्सम्बन्धादुपधायाः स्वलिङ्गेनावस्थितिः । ननु कथमिह वर्ण इति लभ्यते ? सत्यम्, वर्णसमुदायो हि लिगं धातुर्वा अर्थादन्त्यशब्दवाच्यःपूर्वशब्दवाच्यश्च वर्ण एव भवति । किञ्च स्मृतिकृतोऽतिशयोऽन्त्यवर्णविषयानुसन्धिः (स्मृतिकृतोऽन्त्यवर्णविषयार्थसम्बन्धि) प्रत्यय इत्युक्त एव । अतः पूर्वोऽनन्तर एव वर्ण उपधासंज्ञार्थं स्मर्यते इति कुतः शिष्टः शिष्यत इति । अत्रान्त्यादवयवात् पूर्वस्य शकारमात्रस्य उपधासंज्ञा यत्तदर्थं वर्ण इति भण्यते । आशीरिति ज्ञापयन्त्यन्ये। यद्येवं संज्ञयापि किमुपधाविधानेन उपान्त्य इति कृतेऽप्यभिमतं सिध्यति, समीपभूतो वर्णोऽन्त्यो यस्य खलु उपान्त्य इत्युच्यते ? सत्यम्, एता हि संज्ञा नित्या अन्वाख्यातव्या इति ।। ९०। [वि० प०] अन्त्यात् । अत्र सूत्रे विशेषस्यानिर्देशाल्लिङ्गाधिकारस्याप्यनङ्गीकरणात् सामान्यमेव विज्ञायते इत्याह - लिङ्गस्य धातोर्वेति । न चेदं लिङ्गप्रकरणं लिङ्गकार्यस्य "अकारो दीर्घ घोषवति" (२।१।१४) इत्यादिना विधास्यमानत्वेन तस्य भविष्यत्वात् । किं च यदि लिङ्गप्रकरणत्वात् तस्यैव उपधासंज्ञा स्यात् तदा "अस्योपधाया दीर्घो वृद्धिः०"(३।६।५) इत्यादि विरुध्यते, धातोरुपधाव्यवहाराभावादिति । एतदेव सूचयति - उपधाप्रदेशाः “अस्योपधाया दीर्घो वृद्धिः०"(३।६।५) इत्यादि ।। ९०। [क० च०] अन्त्यात् । अन्त्यादिति ‘भाविनि भूतवदुपचारः' (कात० प० १४) इत्याह - किं चेति । वृत् - ऋकार इत्यपि क्वचिद् वृत्तौ पाठः । तस्यायमाशयः- उपधासंज्ञाया गुणः "अदुपधाच्चाक्लुपितेः" (४।२।२४) इत्यत्र क्यबपि प्रयोजनम्, किन्त्वेतत् तात्पर्यं स्याद् गुणरूपोपधाकारस्य पूर्वमेव दर्शितत्वात् । तस्माद् वृ- वकार इति पाठस्यैव प्रयोजनम्-"उरोष्ठ्योपषस्य" (३ । ५।४३) इति व्यञ्जनकार्यत्वात् पूर्वतो विशेषो ह्ययम् ।।९०। [समीक्षा] पाणिनि तथा कातन्त्रकार की यह उपधासंज्ञा अन्वर्थ है - उप = समीपेऽन्त्यस्य पूर्वस्मिन् समीपे धीयते निधीयते यो वर्णः स उपधासंज्ञः। उपधानमिति वा उपथा।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy