SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ३३ नामचतुष्टयाप्याये प्रथमो धातुपादः नपुंसके जस् ततश्च शस् इति पृथग्योग एव कृतः स्यात् । तस्माद् द्वितीयाबहुवचनेन समाससंसृष्टेन जसा द्वितीयाद्विवचनैकवचनमपि नियम्यते इति संक्षेपः।। ८३। [समीक्षा] द्र०, पूर्वसूत्र (२।१।३) - समीक्षा ।। ८३ । ८४. आमन्त्रिते सिः सम्बुद्धिः [२।१।५] [सूत्रार्थ] आमन्त्रित (प्रसिद्ध वस्तु के अभिमुखीकरण = कार्योन्मुखीकरण) अर्थ में विहित 'सि' प्रत्यय की संबुद्धि संज्ञा होती है ।। ८४ । [दु० वृ०] सिद्धस्याभिमुखीकरणमामन्त्रितम् । तस्मिन्नर्थे विहितः सिः संबुद्धिसंज्ञो भवति । हे अम्ब! हे वृक्ष ! संबुद्धिप्रदेशा:- “संबुद्धौ च"(२।१।३९,५६) इत्येवमादयः ।। ८४। [दु० टी०] आमन्त्रिते०।आमन्त्रणम् आमन्त्रितम्, अर्थात् लिङ्गात् पर इति । सिद्धस्येत्यादि । एतेन किमुक्तम् आमन्त्रणं वस्तुगतं (आमन्त्रितं वस्तुगतम्) प्रागेव क्रियासम्बन्धाद् अभिमुखीकृत्य हि पदार्थः क्रियायां विनियुज्यते । हे पचन्, हे पचमान, हे करिष्यन्, हे करिष्यमाण ! आमन्त्रितविषये हि शन्तृङानशौ अतिरिक्त आमन्त्रणार्थ इति "आमन्त्रणे च" (२।४।१८) इत्यनेनैव प्रथमा- सेः संबुद्धिसंज्ञास्तीति संबुद्धिनिबन्धनं कार्य प्रवर्तते । अन्यः पुनराह – लिङ्गार्थो विभक्त्यर्थश्चामन्त्रितमुभयविशेषणं चैतत्, तदा आमन्त्रणे वर्तमानाद् आमन्त्रणे च यः सिरिति । वृक्षादेरचेतनस्यापि विवक्षया आमन्त्रणमिति संज्ञाप्रकरणत्वादिहैव संबुद्धिसंज्ञा न्याया इत्यामन्त्रणे च तदनन्तरं सिः सम्बुद्धिरिति न कृतं संबोधनार्थत्वात् सिः सम्बुद्धिरुच्यते ।। ८४ । [वि० प०] आमन्त्रिते। सिद्धस्येत्यादि । अभिमुखस्य भावः आभिमुख्यम्, तस्मिन् करणं विधानम्, सिद्धस्येति । एतदुक्तं भवति – योऽन्यत्र व्यासक्तः कार्यान्तरे विनियोजनार्थमाभि
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy